________________
काव्यादर्शनामसंकेतसमेत: [ २ xि० उल्लासः ] निर्ग्राह्य संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्वर्थेपाधित्वेन संनिवेश्यत इति सोऽय' संज्ञारूपयदृच्छात्मक इति । __ 'गौः शुक्लश्चलो डित्य इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः' इति महाभाष्यकारः। परमाणुत्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम् । गुणक्रियायदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद् भेद इव लक्ष्यते । यथैकस्य मुखस्य खड्गमुकुरतैलायालम्बनभेदात् ।
हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्यादिरभिन्नाभिधानप्रत्ययोत्पत्तिस्तच्छुक्लस्वादि सामान्यम् । गुडतण्डुलादिपाकादिष्वेवमेव पाकोदित्वम् ।.. 10
बालवृद्धशुकाधुदीरितेषु डित्यादिशब्देषु च प्रतिक्षणं भिद्यमानेषु । "स्थ] शब्दोचारणकाले वा 'डि'शब्द इति । अत एव संहृतक्रमं स्वरूपम् । तत् खलु तां तामभिधाशक्तिमभिव्यञ्जयता वक्रा यहच्छया संज्ञिनि निवेश्यते । तस्माच्छब्दप्रवृत्तिनिमित्तानां चतुष्टवाद् मुख्यः शब्दार्थश्चतुर्विध इत्यन्योक्तेन संवादमाह - गौः शुक्ल इति ॥ पारिभाषिकमिति । ततो न जातिशब्दत्वम् । 15 अन्यथा न खलु स्वयं परमाणु प्यपरमाणुः परमाणुत्वसंबन्धात् तु परमाणुरिति जातिशब्दत्वं स्यात् ॥ जातिरेव वेति व्याकुर्चनाह-गुणक्रियेति । सर्वेषामपि गुणक्रियायहच्छाशब्दत्वेन अभिमतानां जातिनिबन्धनत्वम् ॥
ननु विभिन्नेषु अभिन्नाकारा बुद्धि तिर्गुणादीनां चैकत्वान जातिशब्दत्वमित्याशङ्कयाह - आश्रयभेदादिति । आश्रयाणामनेकत्वाद आश्रयिणां 20 गुणादीनामप्यनेकत्वम् ।। यथैकस्येति । यथा हि खड्गतैलादीनां प्रतिविम्बनिबन्धनानां भेदाद् एकमेव मुखं नानाकारत्वेन अवभासते, तथैव शुक्लादिव्यक्तिः शङ्खाद्याश्रयविशेषवशेन नानारूपतयाभिव्यक्तिमासादयतीति गुणशब्दानामपि एकाकारावतिनिबन्धनत्वाद् जातिरेव एका प्रवृत्तिनिमित्तम् ॥ अभिधानं शब्दः प्रत्ययो ज्ञानम् । अभिन्नौ च तौ अभिधानप्रत्ययौ च तयोरुत्पत्तिः । पाकादिष्विति । 25 क्रियाशब्देष्वपि गुदतण्डुलादिद्रव्याश्रिता ये पाकादयोऽन्योन्यमन्यत्वेन स्थिताः क्रियाविशेषास्तत्समवेत सामान्यमस्ति, यद्वशेनायं 'पाकः पाकः' इत्यभिन्ना. भिधानप्रत्ययः ।। डिस्थादिशब्देष्विति । 'यदृच्छाशब्देषु शुकसारिकामनुष्याधुदीरितेषु भिन्नेषु समवेतं डित्थशब्दत्वादिकं सामान्यमेव यथायोगं संज्ञिषु अध्यस्तमभिधेयम् । यदि वा उपचयापचययोगितया डित्थादौ संज्ञिनि प्रतिकलं 30