________________
[१ वि० उल्लासः ] काम्यप्रकाशः।
गौः शुक्लश्चलो" डित्य इत्यादीनां शब्दानां विषयविमागो न मामोतीति च तदुपाधावेव संकेतः। उपाधिश्च"-वस्तुधर्मों वक्तृयदृच्छासंनिवेशितश्च । वस्तुधर्मोऽपि -सिद्धः साध्यश्च । सिद्धोऽपि - पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । आधो जातिः । उक्तं हि वाक्यपदीये-'न हि गौः स्वरूपेण
5 गौ प्यगौः, गोत्वाभिसंबन्धात तु गौः' इति । द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते । साध्यः
पूर्वापरीभूतावयवः क्रियारूपः । डित्यादिशब्दानामन्त्यबुद्धिसंकेतः क्रियते तदान्येषु कर्तुं न शक्यते ॥ व्यभिचाराच्चेति । यदि व्यक्तौ संकेतः स व्यवहारकालं व्यभिचरति बाल्यादिविशेषात् ॥ गौः शुक्ल इति । गोत्व- 10 शुक्लत्वचलत्वविशिष्टे एव गोपिण्डे संकेताद् गौः शुक्लश्चल इत्यादीनां शब्दानां विषयो नास्ति, ज्ञातार्थानां पुनः प्रयोगानईत्वात् । तदुपा[धा]विति । तेषां शब्दा. नामुपाधौं । वस्तुधर्मे जात्यादिलक्षणे। तथा हि सर्वेषां शब्दानां स्वार्थाभिधानाय प्रवर्तमानानाम् उपाध्युपदर्शितविषयविवेकवाद उपाधिनिबन्धना प्रवृत्तिः। वक्रा यहच्छया तत्तत्संझिविषयाभिधा शक्तयभिव्यक्तिद्वारेण तस्मिंस्तस्मिन् संज्ञिनि 15 उपाधितया संनिवेश्यत इति वक्तृयदृच्छासंनिवेशितः अतस्तनिबन्धना यहच्छाशब्दा डित्यादयः । यस्तूपाधिर्वस्तुधर्मत्वेन अवस्थितः स द्विधा, सिद्धसाध्यताभेदात् । सिद्धोऽपि उपाधिविधा, जातिगुणभेदात् ।। आद्य इति। पदार्थप्राणप्रदः सिद्ध उपाधिः । न हि कश्चित पदार्थों जातिसंबन्धमन्तरेण स्वरूपं प्रतिलभते ॥ द्वितीय इति । जातिमहिम्नैव लब्धस्वरूपस्य वस्तुनः पटादेविशेषाधानहेतुः सिद्ध 20 उपाधिः शुक्लादिः । यदुक्तम्
सत्त्वे निविशतेऽपैति पृथग् जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥
तदेवं यस्य प्राणपदोपाधिनिबन्धनस्वं शब्दस्य, स जातिशब्दो गवादिः। यस्मात् तु लब्धस्वरूपस्य वस्तुनो विशेषाधानहेतुरर्थः प्रतीयते स गुणशब्द 25 इति ॥ साध्य इति । उपाधिः। साध्योपाधिनिबन्धनाः क्रियाशब्दाः, यथा 'पचति' इति । पूर्वापरीभूतौ तुसबुसादिपक्षेपनिक्लेदादिरूपी अवयवौ यस्याः सा तथा । अन्त्यबुद्धिनिर्माद्यमिति । क्रमवृत्तित्वाच्छब्दानां नैकदेशकालावच्छेदलक्षणः समुदायः संभवति । न खलु 'डि'शब्दोचारणकाले 'स्थ शब्दोऽस्ति,