________________
काव्यादर्शनामसंकेतसमेतः [ २ वि० उल्लासः ] माए घरोवयरणं अन्न हु णत्थि ति साहिअं तुमये ।
ता भण किं करणिज्जं एमेअ ण वासरो ठाइ ॥६॥ अत्र स्वैरविहारार्थिनीति व्यज्यते । लक्ष्यस्य यथासाहेन्ती सहि मुहेयं खणे खणे दुम्मिआसि मज्ज कयें।
सम्भावणेहकरणिज्जसरिस दाव विरइयं तुमये ॥७॥ 5 अत्र मंत्मियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वपकाशनं व्ययम् । व्यङ्गयस्य यथा
उ णिचलनिष्फन्दी "भिसिणीपत्तम्मि रेहइ बलाया। निम्मेलमेरंगयभाषणपरिट्ठियाँ सञ्जसिप्पि छ । अत्र "निष्यन्दत्वेनाश्वस्तत्वम् , तेन च जनरहितत्वम् , अतः 10. संकेतस्थानमेतदिति कैयापि कंचित् प्रत्युच्यते । अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते । वाचकादीनां क्रमेण सैंपमाह
साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ॥७॥ इहागृहीतसंकेतस्य शैब्दस्यार्थप्रतीतेरभावात संकेतसहाय एव 15 शब्दोऽर्थविशेष प्रतिपादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचकः।
संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा। यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव, तथाप्यानन्त्याद् व्यभिचाराच तत्र संकेतः कर्तुं न युज्यत इति 20
माए [इति । साधितं कथितम् । एवमेव न वासरस्तिष्ठति । अत्र तस्या असाध्वीत्वेऽवगते व्यङ्ग्यप्रतीतिः, प्रतिपायविशेषात् ॥ साहिन्ती । साधयन्ती कथयन्ती। अत्र विपरीतलक्षणायां प्रियसंभोगः शत्रुत्वं च लक्ष्यम् । एतत् तृतीयोल्लासे वक्ष्यते ॥
यस्येति शब्दस्य ॥ यत्रेति जात्यादौ । वाचक इति शब्दाः संकेतितं 25 माहुरित्युक्तेः । वाचकत्वं हि समयपशाद् अन्यवधानेन प्रतिपादकत्वम् । यथा तस्यैव शब्दस्य स्वार्थे ॥
जात्यादिरिति । जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्चेति ।। अर्थक्रियाकारितयेति । यागसाधनहेतुत्वेन । आनन्स्यादिति । यद्येकस्मिन् गोपिण्डे