________________
[१ वि० उल्लास:]
काव्यप्रकाशः।
[द्वितीय उल्लासः ] क्रमेण शब्दार्थयोः स्वरूपमाह
स्याद् वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा। अति काव्ये । एषां स्वरूपं वक्ष्यते ।
वाच्यादयस्तदर्थाः स्युः वाच्यलक्ष्यव्यङ्ग्याः।
तात्पर्यार्थोऽपि केषुचित् ॥ ६॥ आकाङ्क्षासंनिधियोग्यतावशाद् वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वयें तात्पर्यार्थों विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहितान्वयवादिनां मतम् । वाच्य एव वाक्यार्थ
10 इत्यन्विताभिधानवादिनः।
- सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते। तत्र वाच्यस्य यथा-- ' विषयभेदाच्छब्दानां भेदो न स्वाभाविक इत्याह-वाच्यादय इति । अभिधानानन्तरं चान्वयपतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति, तद्विषयस्तात्पर्य- 15 लक्षणोऽर्थोऽपि, तथापि तौ वाक्यविषयावेवेत्याह- तात्पर्यार्थोऽपि केष्विति । अभिहितान्वयवादिषु भट्टेषु प्रतियोगिषु प्रतिपत्तुजिज्ञासा आकाङ्क्षा, आकाइक्षितस्यानन्तर्य संनिधिः, योग्यता संबन्धात्वम् ॥ अपदार्थोऽपीति । उक्तस्वरूपाकाङ्क्षादिवशाद अन्योन्यमन्विताः पदार्यास्तात्पर्यापरनामधेयं वाक्यार्थमवबोधयन्ति । यदाइ- 'पदानि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि 20 अथेदानीमर्थोऽवगतोऽर्थान्तरमवगमयति' इति प्रभाकरपक्षे चान्विताभिधाने आकाङ्क्षादिवशाद् अन्यान्यमन्वितानि पदानि एवं प्रधानगुणतया परस्परानुगतपदकदम्बकस्वरूपं वाक्यार्थमभिदधतीति वाच्य एव वाक्यार्थः । यदाहुः
कारकोपनिबन्धः स्यात् क्रियादिषु यथा यथा । जिज्ञासा जायते बोद्धः संबन्धिषु तथा तथा ॥
25 यद्यदाकाङ्कितं योग्यं संनिधि प्रतिपद्यते ।
तदन्वितपदेनार्थः स्वकीयः प्रतिपद्यते ॥ ६॥ वक्तृबोद्धव्यकाकुवाक्यवाच्यादिवैशिष्टयाद् अर्थानां वाच्यादीनां व्यञ्जकतेत्याह --- सर्वेषामिति । वक्तृवैशिष्टयात् ।