SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३०६ काव्यादर्शनामसंकेतसमेतः [१० द० उल्लासः ] . मृगलोचनया विना विचित्रव्यवहारपतिभामभाप्रगल्भः । अमृतधतिसुन्दराशयोऽयं मुहदा तेन विना नरेन्द्रसूनुः॥४९७॥ परिवृत्तिविनिमयो योऽर्थानां स्यात्समासगैः ॥११३॥ परित्तिरलङ्कारः । उदाहरणम्लतानामेतासामुदितकुसुमानां मरुदयं । मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥४९८॥ अत्र प्रथमेऽर्धे समेन समस्य, द्वितीय उत्तमेन न्यूनस्य । नानाविधमहरणैनृप संपहारे स्वीकृत्य दारुण निनादवतः प्रहारान् । प्रयुक्तारुचित्वाद्यभिधानमुखेन शोभनानामपि चन्द्रादीनामशोभनत्वमुक्तम् ।। 'मृगे 'ति । तया हि प्राग्मोहितः किमपि नाज्ञासीत् । 'सुहृदा' इति । अकल्याणमित्रं हि तस्यासीत् । अत्राशोभनावपि शोभनावुक्तौ ॥ विना-शब्दमन्तरेणापि विनार्थविवक्षा दृश्यते यथा सहोक्तौ सहार्थविवक्षा । तेन निरर्थक जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥ -इत्यादौ विनोक्तिरेव तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतिः॥ [२८] अर्थानामिति । अर्थशब्देन अर्थ्यतेऽसाविति उपादेयोऽर्थोऽभिधीयते । 20 बहुवचनं चाविवक्षितम् । तेन यत्रकं दत्त्वा एकं वे बहूनि च वस्तून्यादीयन्ते, द्वे च दत्त्वा एक द्वे बहनि वा, तत्र सर्वत्रै स्यात् । समन्यूनाधिकानां समानोत्कृष्टगुणेन न्यूनगुणेन च स्यात् परिवर्तने परिवृत्तिः ॥ . समपरिवृत्तिः, यथा- 'लतानाम् ' इति। लास्यामोदयोः समत्वात् ।। उत्कृष्टपरिवृत्तौ ' लतासु ' इति । यथा वा किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभिवल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥ -अत्र उत्कृष्टगुणैराभरणैन्यूनगुणस्य वल्कलस्य परिवृत्तिः ॥ न्यूनपरिवृत्तिः, यथा-'नाने ति । 'विप्रलम्भो भ्रान्तिरपायो वां । निर्वि 25
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy