________________
[ १०० उल्लासः]
काठमप्रकाशः। विनोक्तिः सा विनान्येन यत्रान्यः सेन्नेथेतरः। कचिदशोभन:, कचिच्छोभनः । क्रमेणोदाहरणम्अरुचिनिशया विना शशी शशिना सापि विना महत्तमः।
उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥४९६॥
ननु, 'सह दिअसणिसे 'त्यादौ परस्परसाम्यसमन्वयो मनोहारिता- 5 निबन्धनमिति प्रतीयमानोपमैवेयं, हन्त तहि रूपकापनुत्यप्रस्तुतप्रशंसादयोऽपि पृथग् न वाच्याः, तत्रापि उपमानोपमेयभावप्रतीतेरुपमैव एकालंकारो वाच्यो, नालंकारान्तरम् । यदाह वामनः- 'प्रतिवस्तुप्रभृतिरुपमाप्रपश्चः' इति । अथ रूपकादिषु तच्चारोपादिलक्षणं विशेषमङ्गीकृत्य रूपकादिव्यवहारः प्रवर्त्यते, तहि सहोत्यादावपि सहार्थसामर्थ्यावसितसाम्यसमन्वयलक्षणो विशेषोऽस्तीति 10 तेऽप्युक्ताः। व्यङ्ग्यं तु तत्त्वारोपादिनाभिधीयमानेनैव वाक्यार्थोऽलंकृत इति वाक्येऽहंकारे गुणीभवति । एवं दीपके दीपनकृतमेव चारुत्वमित्युपमापि । मालारूपापीयं यथोक्तोदाहरण एव । यथा वा
उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखै मितं .
भूपानां जनकस्य संशयधिया साकं समास्फालितम् । . 15 वैदेह्या मनसा समं तदधुना कृष्टं ततो भार्गव
- प्रौढाहंकृतिकन्दलेन च समं भग्नं तदेशं धनुः ॥ शोभाशून्यत्वे च. अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इति । ' शिष्येण सहोपाध्यायः पठति ' 'पुत्रेण सह पिता तिष्ठति' इत्यादौ च सहोक्तिमात्रं 20 नालंकारः । यदुक्तम्
समासोक्तिः सहोक्तिश्च नालंकारतया मता।
अलंकारान्तरत्वेन शोभाशून्यतया तथा ॥ शोभाशुन्यत्वमहृयत्वम् । तत्र चोपमादयोऽपि नालंकारा इति सर्व संमतम् ॥११० [२७॥]
25 सहोक्तिपतिपक्षभूतां विनोक्तिमाह --विनोक्तिः सेति ॥ सन्नथेतर इति । शोभन एवान्योऽशोभनः अशोभन एव वा योभनो यत्रान्येन विनान्यासंनिधानेन निबध्यते सा द्विधा विनोक्तिः ॥
· अरुचिनिशे 'ति । रुचिरहितोऽशोभन इत्यर्थः । अत्र निवाघसंनिधि