________________
३०४
काव्यादर्शनामसंकेतसमेतः [१० ६० उल्लासः ] सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥११२॥ ___ एकार्थाभिधायकमपि सहार्थबलाध भयस्यावगमकं सा सहोक्तिः । यथासह दिसणिसाहि दीहरा सासदण्डा
सह मणिवलेएँ हि वाहधारा गलन्ति । तुई मुह विओए ती उविग्गिरीए
सह अ तणुलदाए दुबला जीविदासी ॥४९५॥
वासदण्डादिगतं दीर्घत्वादि शाब्दम् । दिवसनिशादिगतं सहार्थसामर्थ्यात्मतिपद्यते।
-अत्र प्रक्रान्तापि स्तुतिपर्यवसिता निन्दा 'हन्त कीर्तिः' इति भणित्वा 10 उन्मूलिता न प्ररोहं गमितेति श्लिटमेतद् उदाहरणम् । यत्तु निन्दापूर्विकायां स्तुतौ तेनापि उदाहृतं
आसीन्नाथ पितामही तव मही माता ततोऽनन्तरं ___ जाता संप्रति साम्बुराशिरशना भार्या कुलोद्भूतये । पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा
युक्तं नाम समग्रनीतिविदुषां तदु [? किं भू] पतीनां कुले ॥ -इत्यादि तद् प्राम्यं प्रतिभाति. अत्यन्तासभ्यस्मृतिहेतुत्वात् ॥ का चानेन स्तुतिः कृता त्वं वंशक्रमेण राजा 'इति कियदिदम् ॥ २६॥]
एकार्थाभिधायकमपीति । एकपदार्थगतधर्माभिधायकमपि सहार्थसामर्थ्येन द्वितीयपदार्थगतधर्मप्रत्यायकमपि यद् भवति । 'उन्विग्गिरीए उद्वेजनशीलाया। 20 दण्डादीत्यादिशब्दाद् वाष्पधारागता गलनक्रिया शाब्दी वलयगता तु सहार्थसाम
या॑द् अवसीयते, द्वयोरपि प्राकरणिकत्वाद् अपाकरिणकत्वाद् वा ॥ सहार्थप्रयुक्तोऽत्र गुणप्रधानभावः, तत्र तृतीयान्तस्य नियमेन । गुणभावाद् उपमानत्वं, अर्थाच परिशिष्टस्य प्रधानत्वाद् उपमेयत्वं वैवक्षिकम् । यथा वा
रघु शं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ -अत्र रघुगता पतनक्रिया शाब्दी, अश्रुगता तु सहार्यसामर्थ्याद् अवसीयते ।।