________________
[१० द० उल्लासः ] काव्यप्रकाशः ।
हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥१०॥ शब्दार्थाभ्यामथाक्षि श्लिष्टे तेवत्रिरष्ट तत् । ___ व्यतिरेकस्य हेतुरुपमेयगतमुत्कर्षनिमित्तम्, उपमानेगेतं निकपकारणम्, तयोर्द्वयोरुक्तिः, एकतरस्य द्वयोर्वानुक्तिरित्यनुक्तित्रयम्, एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते, आर्थेन 'मेणोक्तौ चत्वार एव भेदाः, आक्षिप्ते चौपम्ये तावन्त एव, एवं द्वादश। एते च श्लेषेऽपि भवन्तीति चतुविशतिर्भदौः। क्रमेणोदाहरणम्
असिमात्रसहायस्य प्रभूतारिपरामवे । अन्यतुच्छजनस्येक न स्मयोऽस्य महाधृतेः ॥ ४६३ ॥ 10
अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानुपादानेऽन्यद् भेदत्रयम् । एवमन्येष्वपि द्रष्टव्यम् । अत्रेवशब्दस्य नार्थेन वा निवेदिते प्रतीयमाने वा द्वादशभेद इत्याह-हेत्वोरिति ॥ तद्वदिति । तथा श्लेषेऽपि द्वादश भेदाः, तत्तस्मात् त्रीन् वारान् अष्टभेदाश्चतुर्विशतिरित्यर्थः ॥ शब्देनेति । इव-वा-यथेतिरूपेण इवार्थे विहितवतिरूपेण च ॥ अर्थेनेति । तुल्या- 15 दिना शब्देन तुल्यार्थे विहितवतिना च ॥ आक्षिप्ते इति । इवादितुल्यादिपदविरहे इत्यर्थः॥
असिमात्रसहायस्य' इति । अत्र तुच्छत्वं निकर्षकारणं महाधृतित्वं तु उत्कपस्य स्मयाभावस्य कारणमिति उपमेयोपमानगतौ युगपद् उत्कर्षापकर्षहेतू उक्तौ। अत्रैव 'इतरस्य जनस्येव न स्मयोऽस्य महावृतेः' इति पाठे महाधृतित्वमुप- 20 मेयोत्कर्षहेतुः । 'तुच्छस्यान्यजनस्येव न स्मयो. यस्य लक्षितः' इति तु पाठे तुच्छत्वमुपानापकर्षहेतुः स्यात् । तयात्रैव द्वयोर्युगपद् अनुपादानेऽपिनेयमित्याह वृत्तिकृद्-अत्रैव तुच्छेति । यथा वा
__ शीर्णपर्णाम्बुवाताशकाष्ठेऽपि तपसि स्थिता । । . समुद्वहन्ती नापूर्वं गर्वमन्यतपस्विवत् ।।
आशो भक्षणम् । गर्वानुद्वहनेन उपमानाद् उपमेयस्याधिक्यं, गर्वोपक्रमावस्थापेक्षं चोपमानोपमेययोः सादृश्यम् । वतिश्च शाब्दीमुपमानोपमेयतां द्योतयति । अत्र उपमेयोपमानगतयोरुत्कर्षापक हेत्वोयोरपि अनुक्तिरिति चत्वारो भेदाः ।।एवमन्येष्विति । आर्थादौ चतुष्कपश्चकेऽपि दर्शितदर्शिना उदाहरणैरन्यद्
25