________________
काव्यादर्शनामसंकेतसमेतः [१० द० उल्लासः ] सद्भावाच्छाब्दमौपम्यम् ।
असिमात्रसहायोऽयं प्रभूतारिपराभवे । नैवान्यतुच्छजनवत्सगर्वोऽयं 'धृतनिधिः॥४६४ ॥ तुल्यार्थे अत्र वतिरित्यार्थमौपम्यम् । इयं सुनयना दासीकृततामरसश्रिया।
आननेनाकलङ्केन जयतीन्दं कलङ्किनम् ॥ ४६५ ।। 'अत्रेवादि-तुल्यादि पदविरहेणी क्षिप्तैवोपमा। जितेन्द्रियतया सम्यग्विद्यादृद्धनिषेविणः । अतिगाढगुणस्यास्य नाब्जवद्भगुरा गुणाः ॥ ४६६ ॥. अत्रेवार्थे वतिः । गुणशब्दः श्लिष्टः। अखण्डमण्डलः श्रीमान्पश्यैष पृथिवीपतिः। न निशाकरवज्जातु कलावैकल्यमागतः ॥ ४६७॥
अत्र तुल्यार्थे वतिः। कलाशब्दः श्लिष्टः। भेदत्रयं द्रष्टव्यमित्यर्थः ।। आर्थेन साम्ये, यथा-' अतिमात्रे'ति । अत्रापि उत्कर्षापकर्षहेत्वोयोरुतिः । यत्र तत्र तस्येव' इत्यनेन इवार्थे वतिः, तत्र श्रौत- 15 मौपम्यम् । यत्र तु 'तेन तुल्यं क्रिया चेद् वतिः' इत्यनेन वतिः, तत्र आर्थमौपम्यमित्याह-तुल्यार्थेऽत्रेति । एवमन्यद् भेदत्रयं ज्ञेयम् ॥
- आक्षिप्तौपम्ये यथा- 'इयं सुनयना' इति । अत्र अकलङ्ककलङ्कितत्वे उपमेयोपमानगते युगपद् उत्कर्षापकर्षहेतू उक्तौ ॥ अनुक्तौ भेदत्रयं यथा
नवीनविभ्रमोदभेदतरंगितगतिः सदा।।
मुखेन स्मितमुग्धेन जयत्येषा सरोरुहम् ॥ -अत्र स्मितमुग्धत्वमुपमेयोत्कर्षहेतुः। अत्रैव 'विडम्बयति वक्त्रेण निश्यवस्मितमम्बुजम् ' इति पाठे उपमानापकर्षः। 'अहो विडम्बयत्येषा वदनेन सरोरुहम् ' अत्र उत्कर्षापकर्षहेत्वोयोरपि अनुक्तिरिति चत्वारो भेदाः । साम्यं तु आक्षेपात् सर्वत्र प्रतीयते ॥ .
25 श्लेषे शाब्दमौपम्यं यथा- जितेन्द्रिये 'ति । अत्र उपमेयोपमानयोरुत्कर्षा पकर्षहेत्वोरुक्तिः ॥ __'अखण्डे 'ति । अत्र उपमेयगतोत्कर्षापमानगतनिकर्षकारणोपादाने आर्थोंपम्ये श्लेषव्यतिरेकस्य प्रथमो भेदः ॥
20