________________
[ १० द० उल्लासः ] काव्यप्रकाशः।
मालादीपकमायं चेद्यथोत्तरगुणावहम् ।
पूर्वेण पूर्वेण वस्तुनोत्रेमुत्तरं चेदुपक्रियते तन्मालादीपकम् । यथासंग्रामाङ्गणमागतेन भवता चापे समारोपिते
संपाप्ते परिपन्थियोधनिवहे सांमुख्यमासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं ते त्वया सितयशस्तेनापि लोकत्रयम् ।।४५९॥ नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥१०४॥ नियतानां पाकरणिकानामेवापाकरणिकानामेव वा । क्रमे णोदाहरणम् ।
10 पाण्डु. क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥४६०॥ दीपकत्वे सर्व कान्यं सालंकारमिति नार्थोऽनेन ग्रन्थेन । ..
सत्यम्, न क्रियापदमात्र दीपकं, किंतु बहुभिः समानजातीयैः कारकविशेषैरभिसंबध्यमानम् । तस्य चानेकेष्वर्थेषु अभिसंबध्यमानस्यार्थवदन्वयि- 15 रूपं यत् तत्साम्यमुच्यते ॥१०१॥ [१५॥] ____ मालादीपकमिति । मालात्वेन चारुत्वविशेषणमाश्रित्य दीपकप्रस्तावे लक्षितम् ॥ गुणावहमिति । पूर्वस्य पूर्वस्योत्तरं प्रति उत्कर्षनिबन्धनम् ॥
— संग्रामे 'ति । अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षों विहितः समासीदनक्रियानिबन्धनं च दीपनं दीपनविषयाणामुत्तरोत्तरोत्त]म्भितत्वेन 20 कृतम् । चापशब्दाघस्य च 'भावेन भावलक्षणम्' इति सप्तमी। भावः क्रिया, ततो यस्य क्रियया क्रियान्तरं लक्ष्यते तस्माद् भाववतः सप्तमी स्यात् । प्रसिद्धा च क्रिया प्रयुज्यमाना गम्या वा क्रियान्तरं लक्षयति, यथा 'दुग्धासु गतः' । अत्र प्रयुज्यमानदोहनक्रियया गमनं लक्ष्यते । 'कलायमानेष्वानेषु गतः' अत्र 'सत्सु' इति गम्यमानक्रियया गमनं लक्ष्यते । एवं चापसंबन्धिनी या समारो- 25 पक्रिया प्रयुक्ता तया समासादनलक्षणः क्रियाविशेषो लक्ष्यते । एकावली तु पूर्वस्य पूर्वस्योत्तरोत्तरेण उत्कर्षहेतुत्वे स्यादिति भेदः । [१६॥]
प्रस्तुताप्रस्तुतयोः समस्तत्वे दीपकमुक्त्वा व्यस्तत्वे तुल्ययोगितामाहनियतानामिति । पुनःशब्दः पूर्वस्माद् विशेषे । विशेषश्च व्यस्तत्वमेव ॥
'पाण्डु क्षामम्' इति । अत्र वदनादीनि सर्वाण्यपि पाकरणिकानि । 30