SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८ काव्यादशनामसंकेतसमेतः १० ८० उलास ] . कारकस्य च बहीषु क्रियासु सकृवृत्तिःपकम् । यथास्विधति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥४५८॥ श्यन्ते ' इत्येकक्रिया समानो धर्मः ॥ अनेकक्रियागतत्वेनेक कारकं कारकदीपकं, यथा- स्विद्यति ' इति । अत्र 5 वधूलक्षणस्य कर्तृकारकस्य बहीष्ठ क्रिमासु वृत्तिः ॥ आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तौ आदिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । यद् भामहः आदिमध्यान्तविषयं त्रेधा दीपकमिष्यते ॥ यथा-मदो जनयति प्रीति सानङ्गं मानभङ्गुरम् । - स प्रियासंगमोत्कण्ठां सासयां मनसः शुचम् ॥ 'मदः सुरादिपानविकारविशेषः । मानभङ्गुरं मानभअनशीळम् । यद्वा, मानो भङ्गुरो यत्रेति समासः।' अत्र मदादौ यत् पाकरणिकतया विवक्ष्यते तद् उपमेयं, शेषाणि उपमानानि । आदिवाक्यस्था च जननक्रिया. एको धर्मोऽप. रेष्वपि वाक्येषु वर्तत इति आदिक्रियादीपकम् ।। संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । 15 प्रचक्रमे पल्लवरागताम्रा प्रभा पतंगस्य मुनेश्च धेनुः ।। - -अत्र 'प्रचक्रमे ' इति मध्यस्था क्रिया॥ अन्तक्रियादीपकं तु 'किवाणाण' इति दर्शितम् ॥ एवं कारकदीपकेऽपि आदिमध्यान्तगतत्वं ज्ञेयम् ॥ क्रियादेधर्मस्यैव वाक्यार्थेष्वनेकेष्वपि साधारणतया उपादीयमानत्वाद् अत्रौपम्यं बलाद् आपतति । तत्रापि यद् विवक्षितं तद् उपमेयं, इतरत्तु उपमानमिति । अत एव रुद्रटोक्त 20 औपम्यसमुच्चयो दीपकमेव, तुल्यस्वभावात् । यथा- . जालेन सरसि मीना हिंस्ररेणा बने च वागुरया । संसारे भूतसृजा स्नेहेन नराश्च बध्यन्ते ॥ -अत्र उपमानोपमेयत्वे 'बध्यते' इत्येकः साधारणो धर्मः॥ ननु, यदि क्रियापदोपनिबन्धो दीपकं, तर्हि न तदलंकारः। क्रियापदे हि 25 सति वाक्यसमाप्तिः प्रतीयते, न पुनरातिशयः । क्रियां विना वाक्यमेव न स्यात् । यदुक्तम् सुप्तिङन्तचयो वाक्यम् इति । -तेनात्र कुतः कस्यातिशयः । शास्त्रारम्भवैयर्थ्याच्च । क्रियापदस्य हि
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy