________________
[ १०. ६० उल्लासः ]
काव्यप्रकाशः ।
२८७
एष साधर्म्येण । वैधर्म्येण तु -
aared साहसकर्मशर्मणः पाणिं कृपाणान्तिकमानिनीषतः ।
मटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः || ४५६ || सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ १०३ ॥ प्राकरणिकाप्राकरणिकानाम्,
अर्थादुपमानोपमेयानाम्, धर्मः क्रियादिः एकवारमेव यदुपादीयते, तदेकस्थस्यैव समस्त - वाक्यदीपनाद्दीपकम् । यथा
किविणण णं णायण फणमणी केसरॉय सीहाण | कुलवालिया कुत्तो छिप्पन्ति मुआण || ४५७||
5
10
तथा त्वद्दर्शने त्वद्गुणपक्षपातित्वेन तस्या मनः कामाग्निज्वलितमुपशाम्यति ।
यथा वा
food एव वानरभटैः किं त्वस्य गम्भीरता मापातालनिमग्नपीवरवपुर्जानाति मन्थाचलः । दैव वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलश्लिष्टो मुरारिः कविः ॥ - अत्र यद्यपि ज्ञानाख्य एको धर्मों निर्दिष्टस्तथापि नैतन्निबन्धनमौपम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्र अब्धिलङ्घनादौ अस्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् । एषोऽपि साधर्म्येण ॥.
15
'तबाहव' इति । अत्र [वि] शरारुतागमनादे[:] स्थिरवाधानादिना 20 वैधर्म्येण प्रतिविम्बनम् ॥
ननु, साधारणधर्माणां प्रतिबिम्बितत्वेन नियतनिष्ठतया कथं साधारणधर्मतेति चेद्, न, वस्तुतो हि तेषां धर्माणामभेद इति साधारणता, शब्दान्तरेण प्रतिपादितत्वात्तु प्रतिबिम्बनमिति न कश्चिद् विरोधः ॥ ९८- १०० ॥ [ १४ ।। ] दृष्टान्तमुक्त्वा सकृद्धर्मस्य निर्देशे दीपकमाह - 25 सकृदिति ॥ एकस्थस्यैवेति । प्राकरणिकाप्राकरणिकवर्गमध्याद् एकत्र स्थितः समानो धर्मः क्रियादिः प्रसङ्गेन अन्यत्रोपकाराद् दीपनाख्याद् दीपसादृश्येन दीपकालंकारः । प्राकरणिकामाकरणिकत्वाभ्यां च तेषामर्थानामुपमानोपमेयभावों गम्यमानो न श्रौत इत्युपमातोऽस्य भेदः ॥
'किवणाणे 'ति । अत्र कुलबालिका प्रकृता, शेषाणि अप्रकृतानि, 'स्पृ- 30