________________
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥४५४॥ इत्यादिर्मालापतिवस्तूपमा द्रष्टव्या । एवमन्यत्राप्यनुसतव्यम् । . दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥१०२॥ एतेषां.साधारणधर्मादीनाम् । दृष्टोऽन्तः निश्चयो यत्र स दृष्टान्तः। 5 त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोविकसति कुसुमं कुमुद्वत्याः ॥४५५।। वाक्ये परिभोगयोग्यपदेन पृथग्निर्दिष्टः, परिवारपदत्वपरिभोगयोग्यत्वयोरेकार्थत्वात् ।। न केवलमियं साधम्र्येण यावद्वैधयेणापि, यथाचकोरा एव चतुराश्चन्द्रिका चामकर्मणि ।
- i0 विनावन्तीन् न निपुणाः सुदृशो रतनर्मणि ॥ इवाघनुपादानेऽपि च पाकरणिकत्वापाकरणिकत्वपर्यालोचनयात्र उपमानोपमेयतावगतिः ॥ .
'यदि दहति ' इति । अत्र 'प्रकृतिरेव सताम् ' इति पाकरणिकं, शेषं तु जयममाकरणिकम् ॥
15 एवमिति । यथा व्यतिरेके । तत्र खेकस्य बहुभ्यो व्यतिरेके, मालाव्यतिरेकता, यथा-'हरवन्न विषमदृष्टिः' इति ।। [१३॥] .
तदेवमौपम्याश्रयेण शुद्धसामान्यस्य निर्देशे प्रतिवस्तूपमामुक्त्वा बिम्बपतिविम्बमावे दृष्टान्तमाह- दृष्टान्त इति । यादृश एवार्थविशेष उपमेयवाक्ये ताश एवोपमानवाक्येऽपि प्रतिबिम्बमावेन यत्र स्यात् पुनःशब्दः पूर्वस्माद् 20 व्यतिरेके । व्यतिरेकश्च बिम्बपतिबिम्बभाव एव । साधारणधर्मादीनामित्यादि शब्दाद् उपमेयानां च ॥
ननु, अर्थान्तरन्यास एवायमित्याशङ्कयाह-दृष्टान्तो निश्चयो यत्रेति । निश्चयश्च विशेषादेव संभवतीति विशेषरूप एवासौ, तेन यत्र विशेषस्य विशेषेण समर्थनं बिम्बपतिबिम्बमावे सति स दृष्टान्तः । दृष्टान्तस्य हि विशेषरूपतयैव 25 पतिविम्वभावः संगच्छते । यत्र तु विशेषस्य सामान्येन समर्थ्यसमर्थकभाका सोऽर्थान्तरन्यास इति विवेकः।।।
त्वयि' इति । अत्र निर्वाणस्यापि साधारणधर्मस्य विकास: प्रतिविम्बस्वेनोपातः । यथा चन्द्रालोके कुमुदिन्याश्चन्द्रगुणपक्षपातित्वेन कुमुदं विकसति