________________
[१० द० उल्लासः ]
काव्यप्रकाशः ।
कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी । यथाहृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥४५२॥ प्रतिवस्तूपमा तु सा ॥ १०१ ॥
सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । साधारण धर्म उपमेयवाक्ये चोपमानवाक्ये च कथितपद'त्वस्य दुष्टर्तयामिहितत्वाच्छन्दभेदेन यदुपादीयते सा वस्तुनो वाक्यार्थस्योपमानत्वात्प्रतिवस्तूपमा । यथा
देवीभावं गमिता परिवारपदं कथं भजत्येषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ||४५३॥
चिकीर्षया शङ्कायोतकचेच्छन्दः । आशङ्का ह्यनिश्चितस्वभावे वस्तुनि स्यात् ॥ इयमुत्पाद्योपमेति रुद्रटः, अद्भुतोपमेति दण्डिप्रभृतयः ॥
असंबन्धेऽपि संबन्ध:, यथा
૨૦૧
पुष्पं प्रोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्तान्रौष्ठपर्यस्त रुचः स्मितस्य ॥
- अत्र असंबन्धे संभावनया संबन्धः । यद्यर्थ विनापीयं दृश्यते, यथादाहोऽम्भः प्रसुर्तिपचः प्रचयवान् बाप्पः प्रणालोचितः
5
10
15
प्रतिदीप्तदीपलतिकाः पाण्डिम्नि मग्नं वपुः । किं चान्यत् कथयामि रात्रिमखिलां त्वद्वर्त्मवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ - अत्र दाहादीनामम्भः प्रसृत्याद्यैरसंबन्धेऽपि संबन्ध उक्तः ॥ ' हृदयम् ' इति । अत्र स्मराधिष्ठानं कार्य पूर्वमेव जातं, नायकाधिष्ठानं तु स्मराधिष्ठान कारणं पञ्चदिति कार्यकारणयोः पौर्वापर्यविपर्ययः ॥ [ १२ ॥ ]
1
प्रतिवस्तूपमा त्विति । कथितपदं पुनरुक्तदोष इति पर्यायान्तरेण साधारणो धर्मो यदुपमेयोपमान वाक्यद्वये पृथग् निर्दिश्यते सा प्रतिवस्तूपमालंकारः । वस्तु- 25 प्रतिवस्तुभावेन तु सामान्य धर्मस्य सकृन्निर्देशे दीपक - तुल्ययोगिते ॥ वस्तुशब्दस्य वाक्यार्थत्राचित्वे प्रतिवस्तु प्रतिवाक्यार्थमुपमासाम्यं यस्यामिति अन्वर्थ इत्याह-वस्तुन इति ॥
'देवी' इति । अत्र परिवारपदत्वं साधारणो धर्म उपमेयवाक्ये उपमान
20