________________
काव्यादर्शनामसंकेतसमेतः [१० ९० उल्लासः ], निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥१०॥ कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः। विज्ञेयातिशयोक्तिः सा उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका । यथाकमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च मुकुमारमुभगेत्युत्पातपरम्परा केयम् ॥४४९॥
अत्र मुखादि कमलादिरूपतयाध्यवसितम् । यञ्च तदेवान्यत्वेनाध्यवसीयते सापरा । यथा
अण्णं लडहत्तणय अण्ण चिय का यि" वत्तणच्छायौं। 10 सामा सामण्णपआँवइस्सो रेह चिअ ण होइ ॥४५०॥
यद्यर्थस्य यदिशब्देन चेच्छब्देने वोक्तौ यत्कल्पनम् अर्थादसंभविनोऽर्थस्य सा तृतीया । यथा
राकायामकलङ्कं चेदमृतांशोभवेद्वपुः।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥४५१॥ नाविपर्ययशुन्यकरत्वयोरसेवने हेतुत्वं न संभवतीति अध्यारोपोऽवसेयः। कर्मचापलं तु असेवने हेतुः । मदश्च सेवने प्रतीयमानश्च कुस्वामिसेवकः ॥ एवं चअप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वेऽप्रस्तुतप्रशंसा । श्लिष्टविशेषणः प्रस्तुतस्य वाच्यत्वेऽप्रस्तुतस्य गम्यत्वे तु समासोक्तिः । प्रस्तुताप्रस्तुतयोरपि वाच्यत्वे विशेष्यस्यापि श्लिष्टत्वेऽर्थश्लेषः ॥ एषान्योक्तिरिति अन्ये ॥९६-९७॥ ११॥] 20 - सेति । लोकातिक्रान्तिगोचरा ॥अध्यवसानमिति विषयिणा उपमानेन अन्त:कृतस्य उपमेयस्य भेदेऽप्यभेद इत्यर्थः । तदेवेति । प्रस्तुतमभिन्नमेव अन्यत्वेन भेदेनाध्यवसीयते । 'श्यामा सामान्यप्रजापते रेखैव न भवति रेखा मर्यादा। 'अन्यल्लटभत्वम्' इत्यभेदेऽप्यन्यत्वेन भेदोपनिबन्धः॥
असंभविनोऽर्थस्येति । बहिरविद्यमानस्यार्थस्य संभावनमात्रेण उपनिबन्धे 25 संबन्धेऽप्यसंबन्धोऽसंबन्धेऽषि संबन्ध इत्यर्थः ॥ संबन्धेऽप्यसंबन्धः, यथा'राकायाम्' इति । अत्र पार्वणशशाङ्कस्य निष्कलङ्कत्वं बहिरसंभवदपि कविप्रजापतिना स्वप्रतिभानाव संभवद्रूपतया उक्तम् । इत्थं च प्रकृतस्य मुखस्य उपमानाभावो, नास्त्यन्यत् किंचिदस्योपमानमिति । अत एव संभाव्यमानार्थनिरा
15: