________________
२८.
10
[१० पू० उल्लासः] काव्यप्रकाशः।
एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो
यन्मुक्तामणिरित्यमस्त स जडः शुण्वन्यदस्मादपि । अङ्गुल्यग्रलघुक्रियापविलयिन्यादीयमाने शनै
स्तैत्रीड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥ ४४१॥ अत्रास्थाने जडानां महत्त्वसंभावना भवतीति सामान्ये प्रस्तुते 5 • विशेषः कथितः।
मुहद्वधूबाष्पजलप्रमार्जन ___ करोति वैरपतियातनेन यः। स एव पूज्यः स पुमान्स नीतिमान्
सुजीवितं तस्य स भाजनं श्रियः ॥ ४४२ ॥ अत्र कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं शैमैयसि ततस्त्वमेव श्लाघ्यः इति विशेषे प्रकृते सामान्यमुदितम् ।
तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकारा:-श्लेषः, समासोक्तिः, सादृश्यमानं वा तुलान्तरस्र्य हेतुः । क्रमेणोदाहरणम्
पुंस्त्वादपि प्रविचलेयदि यद्यधोऽपि ___ यायायदि प्रणयने न महानपि स्यात् । अभ्युदरेत्तदपि विश्वमितीशीयं
केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥४४३॥ लोकोत्तरो वदनादिगतः सौन्दर्यविशेषः कारणरूपः प्रस्तुतः प्रतीयते ॥
'मुखाद्' इति । लोकसिद्धयात्र मुखमाकृतिः। अपेक्षितक्रियं चैतदपादा- 20 नम् । एतत् तच्छरीरादल्पतरं जातमित्यर्थः ॥
विशेष इति । जलबिन्दौ मणित्वसंभावनमप्रस्तुतं विशेषरूपमुक्तम् ॥
'सुहृद्' इति । 'प्रतियातनं शोधनम् । एतद्विष्णुना नरकासुरे हते कोऽपि तन्मन्त्री नरकासुरमित्रं प्रत्याह ॥ .
श्लेष इति । विशेष्यपदस्यापि श्लिष्टता ॥ समासोक्तिरिति । समानविशेषण- 25 त्वम् ॥ सादृश्यमात्रमिति । प्रतीयमानेनापि केनचिद् धर्मणानुगुण्यम् ॥
पुंस्त्वाद् ' इति । 'पुंस्त्वं पुंसो माधस्तस्यैव चारु कृत्यं च । अधः पातालं निकृष्टा गतिश्च। प्रणयने याच्यानिमित्तम् । न महानपि, स्वल्पोऽपि । पुरुषोत्तमो विष्णुः सत्पुरुषश्च ।' एष न शब्दश्लेषोऽभिधाया एकत्र नियन्त्रितत्वाद्, नापि