________________
२८०
काव्यादर्शनामसंकेत समेतः [ १० द० उल्लासः ] कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ ९९ ॥ तदन्यस्य कारणादेः । क्रमेणोदाहरणानि - याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि । कज्जामन्थरतारकेण निपतत्पीताश्रुणां चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ ४३९ ॥ अत्र प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्ठे कारणमभिहितम् । राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते । इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जराचित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥ ४४० ॥ अत्र प्रस्थानोद्यतं मवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गताःइति कारणे प्रस्तुते कार्यमुक्तम् ।
स्वसमर्पणम्' इति लक्षणेन लक्षणेयम् ॥
'याता ' इति । 'स्वभावत एव कृशा, चिन्तया तु सुतरां भविष्यतीति चिन्तां मुञ्चति मयि वदति सति तया विलक्षं हसितं कृतम् । तेन च यदि मां मुक्त्वा यास्यसि ततोऽहं मरिष्ये इति कारणं सूचितम् । ' किमिति ' इति । प्रस्थाननिवृत्तिलक्षणस्य कार्यस्य प्रश्नमात्रे । अत्र प्रस्थानबुद्धिर्मया त्यक्तेति कार्ये प्रस्तुते कारणस्योक्तिः ॥
,
' कुमारसचिवैः कुमारप्रधानैः । राजशुकः कश्चिदेव उत्कृष्टजातिशाली शुकः ' ॥ कार्यमिति । ' दण्ढयात्रोद्यतं त्वां बुद्ध्वा त्वदरयः पलाय्य गताः इति कारणरूप एवार्थः प्रस्तुतो, राजशुकवृत्तान्तस्तु अप्रस्तुतार्थ स्वात्मानमर्पयन कार्यरूप उक्तः ॥ यथा वा
इन्दुर्लिम इवाञ्जनेन जडिता दृष्टिर्मृगोणामिव
प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेवि प्रस्तुतं
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥ -इत्यादौ संभाव्यमानैरिन्द्वादिगतैरञ्जन लिप्तत्वादिभिः कार्य रूपैर प्रस्तुतै
5
10
15
20
25