SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ [ १०.८०. उल्लासः] काव्यप्रकाशा। मेरुं लिलययिषति ध्रुवमेष देव यस्ते गुणान्गदितुमुधममादधाति ॥४३७॥ इत्यादौ मालारूपाप्येषा द्रष्टव्या। स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा। क्रिययैव "स्वरूपस्वकारणयोः संबन्धो "यदवगम्यते सापरा निदर्शना। यथाउन्नतं पदमवाप्य यो लघुहेलयैव स पतेदिति "ध्रुवम् । शैलशेखरगतो दृषत्कणवारुमारुतधुतः पतत्यधः ॥ ४३८॥ अन पातक्रियया पतनस्य, लाघवे सत्युन्नतपदप्राप्तिरूपस्य 10 कारणस्य च संबन्धः ख्याप्यते । अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ ९८॥ · अपाकरगिस्यार्थस्याभिधानेन पाकरणिकस्याक्षेपोऽप्रस्तुतप्रशंसा सी च । संभवद्वस्तुसंबन्धां च निदर्शनामुद्भटोक्तामाह-स्वस्वेति । स्वश्च पतनलक्ष- 15 णायाः क्रियायाः स्वभावः स्वहेतुश्च पातक्रिया वा एव कारणं उन्नतपदावाप्तिलक्षणं तयोरन्वयः कार्यकारणभावलक्षणः संबन्धस्तस्योक्तिः ॥' उन्नतम् ' इति । अत्र ‘ममेवोनतपदावाप्तिरन्यस्यापि लघोः पातावसाना' इति कारणकार्ययोः समन्वयेन उपमेयस्याक्षेपात् संभवद्वस्तुसंबन्धा निदर्शना द्वितीया । वाच्यं हि स्वसिद्धयर्थत्वेन उपमानोपमेयभावलक्षणमर्थान्तरमाक्षिपति ॥ पातक्रिययेति 20 पतनलक्षणया । पतनस्येति । पतेदित्येवमुल्लिखितस्य स्वरूपस्योन्नतपदमाप्तिरूपकारणकार्यस्य ॥ सैवेति । अपस्तुतस्य प्रशंसा या कविभिः क्रियते सा प्रस्तुताश्रया सैव अप्रस्तुतप्रशंसैषोच्यते।। अप्राकरणिकस्येति । वर्णनावसराद् अपेतत्वाद् अपस्तुतस्य॥ ___ ननु, अप्रस्तुतवर्णनमेव अयुक्तम् । कः खलु हिमवद्वर्णने विन्ध्यस्वरूपं 25. वर्णयेदित्याह--प्राकरणिकस्याक्षेप इति । प्रस्तुतस्य कार्यकारणभावादौ संबन्धे सति सहदयावर्जकत्वमस्या इत्यर्थः । कार्ये प्रस्तुते तदन्यस्य कारणस्य १; कारणे प्रस्तुते कार्यस्य २, सामान्ये प्रस्तुते विशेषस्य ३, विशेष प्रस्तुते सामान्यस्य ४, तुल्ये रामादौ प्रस्तुते तुल्यस्य पुरुषोत्तमादेः५, यद्वचोभिधानम् । 'पराथै
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy