________________
काव्यादर्शनामसंकेत समेतः [ १ प्र० उल्लासः ]
तद्भेदान् क्रमेणाह
इदमुत्तममतिशयिनि व्यङ्गये वाच्याद् ध्वनिर्बुधैः कथितः ॥ ४ ॥ इदमिति काव्यम् | बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः । ततस्तन्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य न्मतानुसारिभिरन्यैरपि
शब्दार्थयुगलस्य । यथा
विधेः कार्यस्यानुक्तेर्विशेषोक्तिरलंकारः केवलमस्पष्ट इत्याह- स्फुटो नेति । न चात्र रसवदलंकारः, यतो यत्र प्रधानतया वाक्यार्थी भूतस्यान्यस्यार्थस्याङ्गभूता रसादयस्तत्र रसवदाद्यलंकारस्य विषयः । यत्र चाङ्गितया वाक्यार्थीभूता रसादयः। सरसादिध्वनिरलंकार्यस्तस्योपमादयोऽलंकारा इत्याह - रसस्य हीति ।। ३ 10 काव्यस्य सामान्यलक्षणमुक्त्वा व्यङ्ग्यनिबन्धनं त्रैविध्यमाह - इदमुत्तममिति । वाच्यादर्थान्मुख्यलक्ष्यलक्षणाद् व्यङ्गये वस्त्वलंकाररसादिरूपे सातिशये उत्तमं काव्यं काव्यविशेषों ध्वनिरिति व्यपदिश्यते ॥ कथित इत्यादरेणोपदिष्टः । नहि भूयांसो विद्वांसोऽनादरणीयं वस्त्वादरेणोपदिशेयुः, अंत एत बुधैरिति बहुवचनम् । ततश्वेदम् । प्रथमतात्र न संभाव्यैवेति भावः ॥ 15 काव्यमिति । गुणालंकारोपस्कृतशब्दार्थौ, तत्पृष्ठपाती ध्वनिलक्षण आत्मेति व्ययार्थजीवितं काव्यमित्यर्थः । आत्मात्मवतोरभेदेन च वस्तुतो ध्वनिरेव काव्यम् । अयमभिप्रायः । शब्दार्थशरीरं तावत् काव्यम् । तस्य च केनचिदामना तदनुप्राणकेन भाव्यमेव । अत एव बुध-शब्दोऽत्र काव्यात्मावबोधनिमित्तकः कृतः ॥
-
5
20
ननु, ध्वन्यते द्योत्यत इति व्यङ्ग्य एवार्थी ध्वनिरस्तु | तन्नेत्याह-बुधैरिति । प्रथमे हि विद्वांसो वैयाकरणास्तन्मूलत्वात् सर्वविद्यानां तैथ स्फुटति विकसति अर्थोऽस्मादिति स्फोटस्तद्रूपो व्यङ्ग्यार्थव्यञ्जकः प्रकृतिप्रत्ययादिवर्णसमूहाभिव्यङ्गयोऽर्थात्मा अर्थावसायप्रसत्रनिमित्तं श्रूयमाणः शब्दः, तस्य घण्टानुरणनरूपत्वमस्तीति ध्वनिरिति व्यवहृतम् । यद् भर्तृहरिः
25
यः संयोगविभागाभ्यां करणैरुपजायते ।
स स्फोटः, शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ।
ततोऽन्यैरप्यानन्दवर्धनप्रभृतिभिरुपसर्जनीकृतमुख्यार्थी यो व्यङ्ग्यस्तद्व्यञ्जनसमर्थस्य शब्दार्थयुगलस्य काव्यमिति व्यपदेशस्य व्यञ्जकत्व साम्याद् ध्वनिरित्युच्यते,