________________
[१:. उल्लासः ] काव्यप्रकाशः ।
निःशेषच्युतचन्दनं स्तनतट निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि ति बान्धवजनस्याज्ञातपीडागमे
वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२॥ अधमशब्देन तदन्तिकमेव रन्तुं गतासीति प्राधान्येन" व्यज्यते। 5
अतादृशि गुणीभूतव्यङ्गय व्यङ्गये तु मध्यमम् । अताशि वाच्यादनविशायिनि । यथा--- ग्रामतरुणं तरुण्या नववजुलमारीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुखच्छाया ॥३॥
अत्र कन्जुललतागृहे दत्तसंकेता नागतेति व्यायं गुणीभूतम् । तदपेक्षया 10 ध्वनतीति कर्तव्युत्पत्तेः । तयोव्यापारोऽपि ध्वनि ननमिति भावसाधनत्वात् । व्यङ्गयोऽर्थश्च ध्वनिर्धन्यत इति कर्मव्युत्पत्तेः। कारिकायां तु प्राधान्येन समुदाय एव काव्यरूपो मुख्यतया ध्वनिरिति प्रतिपादितः, उक्तमकारध्वनिचतुष्टयमयत्वात् । व्यङ्गन्यश्चार्थों वाच्यसामर्थ्यात् क्षिप्तं वस्तुमात्रमलंकारा रसादयश्चेति त्रिविधोऽपि वाच्याद् दरं भिन्नः । तथाग्रस्तावद् भेदो वाच्यादन्यः, 15 स हि विधिप्रतिषेधयोर्विरोधेऽपि वाच्यप्रतिषेधरूपे क्वचिद् विधिरूपो यथा 'निःशेषे 'ति । च्युतं चन्दनं, न तु क्षालितम् । निर्मष्टो न तु किंचिन्मृष्टः । दूरमनञ्जने, निकटे तु सामने । पुलकिता तन्वीति चोभयं विधेयं व्यङ्गयपक्षे, अधमपदं च व्यञ्जकम् । अत्र शब्दशक्तिमूलो वस्तुध्वनिः । तथाऽत्रैव स इव त्वं, त्वमिव सोऽप्यधम इत्युपमेयोपमालंकारो व्यङ्गया।
कचिद् वाच्यविधिरूपे प्रतिषेधरूपो यथा 'भम धम्मिये'ति । कस्याश्चित् संकेतस्थानं जीवितसर्वस्वायमानं धार्मिकसंचरणान्तरायदोषात् तदवलुप्यमानपल्लवादिविच्छायीकरणाच त्रातुमियमुक्तिः भमेति । अतिसृष्टोऽसि, माप्तस्ते भ्रमणकालः। अतिसर्गप्राप्त कालयोः पञ्चमी । धार्मिकेति कुसुमाधुपयोगार्थ युक्तं ते भ्रमणम् । विश्रब्ध इति शङ्काकारणवैकल्यात् । स इति यस्ते भय. 25 प्रकम्पामङ्गलतिकामकृत । तेनेति यः पूर्व कर्णोपकणिकया त्वयाऽप्याकर्णितो. गोदावरीतीरलतागहने वसतीति । अत्र भ्रमेति :विधौ वाच्ये तत्र निकुब्जे सिंहस्तिष्ठति, त्वं च शुनोऽपि विभेषि, तत् त्वयाऽस्मिन्न गन्तव्यमिति निषेधः प्रतीयते । एवमलंकारा रसादिभेदाश्च व्यङ्गयावाच्याद भिन्ना अग्रे वितनिष्यन्ते।
20