________________
[१० उल्लासः ] काव्यप्रकाशः।
एवमस्य कारणमुक्त्वा स्वरूपमाह - तदोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि ।
दोषगुणालंकारा वक्ष्यन्ते । क्यापीत्यनेनैतदाह - यत्सर्वत्र सालं. कारौ । कचित्तु स्फुटालंकारविरहेऽपि न काव्यत्वहानिः । यथा -
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरमयः प्रौढाः कदम्बानिला। सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ । रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ १ ॥
अत्र स्फुटो न कश्चिदलंकारः । रसस्य हि प्राधान्यानालंकारता । चन्द्रमणयश्चन्द्रकरस्पर्शादेव स्यन्दमानसहजरसमसराः स्युरिति न शक्तिरे- 10 वास्य हेतुः ॥ ३॥
___ तदिलि । काव्यम् । शब्दार्थाविति । वाचको वाच्यश्च द्वौ समिलितौ । तेन कविकौशलकल्पितकमनीयतातिशयः शब्द एव अर्थ एवषा काव्यमिति पक्षद्वयमपि निरस्तम् , यस्माद् द्वयोराहादकारित्वं, न पुनरेकस्य । त एवान्यैः काव्यलक्षणसूत्रे 'सहिता' विति कृतम् । सहमावेन साहित्येन अवस्थितौ जातिव्यक्तिवद. 15 न्योन्याचव्यभिचारित्वेनेत्यर्थः ॥ मीमांसकादयो हि शब्दार्थयोरत्यन्तं भेदमाहुः । तथा चोक्तम् - 'मुखे हि शब्दमुपलभामहे, द्विवचनेन च वाच्यवाचकजातिद्वित्वमभिधीयते, व्यक्तिद्वित्वाभिधाने पुनरेकपदव्यवस्थितयोरपि काव्यत्वं स्यात् । ततो वाक्यव्यस्थितयोरेव काव्यत्वम् । वेदवाक्यानां च कवेः कर्मेति व्युत्पत्तेन काव्यत्वम् । तर्हि शाकटिकवाक्यानामपि वाच्यवाचक- 20 संबन्धस्य विद्यमानत्वात् काव्यत्वम् ।' नैवम् , शब्दार्थयोः प्रसिद्धस्वरूपातिरिक्तं रूपान्तरमेव काव्यमित्याह - सगुणाविति ॥ दोषगुणेति । श्रुतिकटुपभृतयोऽनित्यदोषा रसस्थापकर्षहेतवः, उत्कर्षहेतवस्तु गुणा माधुर्यादयस्त्रयः, शौर्यादिवत् । ते च दोषगुणा अन्वयव्यतिरेकानुविधानाद् रसाश्रयो रसधर्माश्च गुणवृत्त्या । तु तदुपकारिणोः शब्दार्थयोः । अलंकारा अपि रसस्याङ्गिन उपकारका: 25 शब्दार्थद्वारेण हारादिवत् । एतच वितनिष्यते ।। स्फुटालंकारेति । अनेन गुणानामवश्यंभावः । तथा ह्यनलंकृतमपि गुणवद् वचः स्वदते ' यः कौमारे 'त्यादौ । काव्यत्वेति । भावमत्ययान भावप्रत्ययः, किंतु, कव्यत इति कान्यं, तस्य माव इति ॥ यः कौमारे 'ति । अत्र वरादेः कारणस्य सामग्पे सत्यपि निधुवन