________________
___काव्यादर्शनामसंकेतसमेत: [१५० उल्लासः ] . करणे योजने च पौनापुन्येन प्रवृत्तिरिति” त्रयः समुदिताः, न तु
व्यस्तीस्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः। ह्यत्वं ज्योत्स्नायां, शौक्ल्यं यशोहासादौ, कायॆमयशःपापादौ, रक्तत्वं क्रोधानुरागयोः, चन्द्रिकापानं चकोरेषु, निशि मिन्नतटाश्रयणं चक्रवाकयुग्मेषु वर्णयेत् । सदपि पुष्पफलं चन्दनद्रुषु, फलमशोकेषु, मालती वसन्ते, ज्योत्स्नातमसी शुक्ल- 5 कृष्णपक्षयोः, रक्तत्वं कामिदन्त-कुन्दकुड्मलयोः, हरितत्वं कमलमुकुलादी, पीतत्वं प्रियङ्गुपुष्पेषु, दिवा नीलोत्पलानां विकास, निशानिमित्तकं विस्रंस च शेफालिकापुष्पेषु न वर्णयेत् । तथा मुक्तास्ताम्रपामेव, मकरान् अब्धिष्वेव, चन्दनं मलये एव, भूजोत्पत्ति हिमवत्येव, सामान्योपादाने मणिपुष्पमेघानां शोणत्वशुक्लत्वकृष्णत्वान्येव, पिकरुतं वसन्ते एव, मयूराणां रुतं नृत्तं च वर्षा- 10 स्वेव वर्णयेत् । तथा कृष्णनीलयोः, कृष्णश्यामयोः, पोतरक्तयोः, शुक्लगौरयोः, . चन्द्रे शशमृगयोः, कामध्वजे मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यर्काणां, नारायणमाधवविष्णुदामोदरकूर्मादेः, कमलासंपदोः, नागसर्पयोः, क्षीरक्षारसमुद्रयोः, दैत्यदानवामुराणां चैक्यम् । तथा चक्षुरादेरनेकवर्णत्वं, चिरकालजन्मनोऽपि शिवचन्द्रस्य बालत्वं, कामस्य मूर्तत्वामूर्तत्वे च - इति 15 कविसमयः । समस्यापूरण-वाक्यार्थ-शून्यवृत्ताभ्यासथोपदेशः । उक्तिपादाधुपजीवनं च । उक्तयो ह्यर्थान्तरसंक्रान्ता न प्रत्यभिज्ञायन्ते स्वदन्ते च । उक्तिवै. चिच्याच काव्यार्थानामानन्त्यम् ॥ करणे योजने चेति । विशकलितरूपे प्रबन्धरूपे च ॥ समुदिता इति । अयं अभिप्रायः। कवेः काचिद् विचित्रैव सहजा शक्तिरुलसति । तया च तथाविधवैदग्ध्यबन्धुरां व्युत्पत्तिमावध्नाति । ताभ्यां च 20 विचित्रवासनाधिवासितपानसोऽभ्यासभाग मवति । पेशलाभ्यासपरवशस्य च न काव्यार्थविरामः स्यात् , तदेतेषां न कस्यचिन्न्यूनता ॥
___ ननु च शक्तेरान्तरतम्यात् स्वाभाविक्याः कारणत्वं युक्तं, व्युत्पत्यभ्यासयोः पुनराहार्ययोः कथमेतद् घटेत ? । सत्यं, आस्तां सावत् काव्यकरणं, विषयान्तरेऽपि सर्वस्य कस्यचिदनादिवासनाभ्यासात् स्वभावा- 25 नुसारिणावेव व्युत्पत्यभ्यासौ प्रवर्तते। तौ च स्वभावाभिव्यञ्जनेनैव साफल्यं भजतः । स्वभावस्य तयोश्च परस्परमुपकार्योपकारकमावेन अवस्थानात् । ततः शक्तिरारभते । तौ च तत्परिपोषमातनुतः । तथा चाचेतना अपि पदार्थाः पदार्थान्तरसंनिधिमाहात्म्याद् अभिव्यक्तशक्तयः । यथा