________________
[१० उल्लासः ]
काव्यप्रकाशः । . रजङ्गमात्मकलोकवृत्तस्य शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानां काव्यानां च महाकविसंबन्धिनाम् । आदिग्रहणादितिहासादीनां विमर्शनोद् व्यु.
त्पत्तिः । काव्यं कर्तु विचारयितुं च ये जानन्ति तदुपदेशेन निष्पधेत ॥ लोकवृत्तस्येति । प्रधानं चैतदङ्गं सर्वस्य हि साहित्यस्य लोकवृत्तपति- 5 पादनपरत्वात् । तच्च देशकालस्वभावभेदाद् अनेकप्रकारं वक्ष्यते ॥ चन्दति हादं करोति दीप्यते वा श्रव्यतयेति च्छन्दश्छन्दोविचितिः। छन्दःमभृतीनां पूर्व पूर्व प्रधानं, काव्यबन्धेष्वपेक्षणीयत्वात् । काव्याभ्यासाद् वृत्तनिश्चये सत्यप्यर्धसमवृत्तादौ संशयः स्यादिति च्छन्दःशास्त्राद् वृत्तसंशयच्छेदः ॥ व्याकरणेति । शुद्धानि हि पदानि निष्कम्पैः प्रयुज्यन्ते । अभिधानकोशो नाममाला । ततः 10 पदार्थ निश्चये प्रयुक्तस्याभिधेयस्य प्रयोगः । पदं हि रचनाप्रवेशयोग्यं भावयन् संदिग्धार्थत्वेन न गृह्णीयाद् न य जह्यादिति बन्धविप्लवः । यथा नीवीशब्देन जघनवस्त्रग्रन्थिः सामान्येनोच्यते। 'नीविराग्रन्थनं नार्यों जघनस्थस्य वाससः' इति नाममालाप्रतीकमपश्यतः स्त्रियाः पुरुषस्य वेति संशयः ।। कला गीतवृत्तादिकाश्चतुःषष्टिः। तासां शास्त्राणि विशाखिलादिप्रणीतानि ॥ चतुर्वर्गो धर्मार्थ- 15 काममोक्षाः । तत्र, धर्मशास्त्राणि श्रुतिस्मृत्यादीनि । अर्थशास्त्रं चाणक्यादि । ततो हि नयापनयज्ञानम् । तत्र पाड्गुण्यस्य यथावत्मयोगो नयः, तद्विपरीतोउपनयः । न हि तावविज्ञाय नायकपतिनायकयो:तं निबदु । शक्यम् कामशास्त्रं वात्स्यायनादिप्रणीतम् । ततः कामोपचारनैपुणम् । कामोपचारबहुलं हि 'वस्तु काव्यस्य । मोक्षशास्त्रं गीतादि ॥ महाकवीति । महच्छब्दोऽशेषविशेषविषय- 20 पावीण्यमाह । महाकवि व्यपदेशो ह्यभिधास्यमानव्यङ्गयजीवितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव भवति । काव्यान्तरेषु हि परिचयाल्लक्ष्यज्ञत्वम् । ततो हि प्रबन्धबन्धुरता ॥ इतिहासादीनामिति । आदिशब्दात् तर्कायुर्वेदज्योतिःशास्त्ररत्नपरीक्षाधातुवादधनुर्वेदादि । न च तद्वाच्यं वाचकः शब्दो वास्ति यन काव्यामिति । कविना सकलशास्त्रप्रवणेन भाव्यम् ॥ विमर्शनादिति । प्रतिभा- 25. नोपयोगिसमस्तवस्तुपौर्वापर्यपरामर्शकौशलं हि व्युत्पत्तिः ॥ य इति । सत्कवयः सहृदयाश्च ते हि वक्ष्यमाणस्वरूपनिरूपणया काव्यविषये परं प्रकर्ष प्रापयन्ति । उपदेशेनेति । असदपि पद्मादि नदीषु, हस्त्यादि आकाशगङ्गायां, हंसादि जलाशयमात्रे, स्वर्णरत्नादि यत्र तत्र अद्रौ, सूचीभेवत्वमुष्टिग्राह्यत्वे तमसि, कुम्भोपवा