________________
काव्यादर्शनामसंकेतसमेतः [१ प्र० उल्लासः ] .... सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ।
शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥३॥ " शक्तिः कवित्वबीजरूपैः संस्कारविशेषः । यां विना
काव्यं न प्रसरेत् । प्रमृतं वोपहसनीयं स्यात् । लोकस्य स्थाव- 5 हृदयानुप्रवेशश्च रसास्वादमय इति रसोचितविभावाधुपनिबन्धे रसास्वा. दविवशचेतसां श्रोतृणां चतुवर्गव्युत्पत्तिफलत्वेऽपि प्रीतिरेष मुख्य प्रयोजनम्, अन्यथा प्रभुमित्रसंमितेभ्यो वेदेतिहासादिभ्यः कोऽस्य काव्यरूपस्य कान्तातुल्यत्वलक्षणो विशेषः । पीत्यात्मा च रसस्तदेव च काव्यम् ॥ यथायोगमिति । कवेरेव यशो न सहृदयस्य । यतोऽत्र चिरातीता अपि कवयः श्रूयन्ते ॥10 कवेरिति । काव्यकर्तृत्वलक्षणपूर्वावस्थापेक्षया कविशब्दनिर्देशः। यतः कवेरपि भावकावस्थायामेव रसास्वादः संपद्यते । पृथगेव हि कवित्वाद् भावकत्वम् । यस्य तु काव्यानुशीलनाभ्यासवशाद् विशदीभूते चित्तादर्श वर्णनीयतन्मयीभव.नयोग्यता सहृदयसंवादभाक, स सहृदयः ॥ यतनीयमिति । यतः -
कटुकौषधवच्छास्त्रमविद्याव्याधिनाशनम् ।
आहाद्यमृतवत् काव्यमविवेकगदापहम् ॥ यच
वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणता.
वपीहामो वृद्धान् - इत्याद्यसदुपदेशकं तनिषेध्यत्वेन, न विधेयत्वेन । य एवंविधा विधय- 20 स्तांस्त्यजेदिति कवीनां भावः ॥२॥ . '
एवं काव्यस्यासाधारणानि प्रयोजनान्युक्त्वा कारणमाह - शक्तिरिति ॥ संस्कार इति । वर्णनीयवस्तुविषयनवनवोल्लेखशालि प्रतिभानम् । तस्य विशेषो रसावेशवैवश्यसुन्दरकाव्यनिर्माणक्षमत्वम् । यदाह -.
मनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य ।
भक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ प्रधानं चैतत् कारणम् , अत एवास्य प्राङ् निर्देशः । न प्रसरेदिति । न ।
25