________________
१० ६० उल्लासः ]
काव्यप्रकाशः ।
परोक्तिभदकैः श्लिष्टैः समासोक्तिः
प्रकृतार्थप्रतिपादकेन वाक्येन श्लिष्टविशेषणमाहात्म्याद् न तु विशेष्यस्य सामर्थ्यादपि यदप्रकृर्तस्याप्यर्थस्याभिधानं सा समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः । उदाहरणम्कहिऊण तुझ बाहुप्फंसं "जीये स को वि उल्लासो । अच्छी तुह विरहेण हाज्जैमा दुव्वला णं सा ||४३४ || अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ।
यान्ति न्यायप्रवृत्तस्य तिर्यश्वोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥
२७७
5
-इत्यादौ, तत्र न श्लेषोऽर्थद्वयस्य प्रकृतत्वेनाभिधेयतया वक्तुमनिष्ट - 10 त्वात्, किं तु अर्थशक्तिमूलो वस्तुध्वनिरेव । तथा हि प्रकृते न्यायवतः पुंसस्तिर्यञ्चोऽपि सहायाः, सूचनी पार्थविषयत्वेन तु राम- सुग्रीवादिवृत्तत्वम् ॥ 118811 [411]
अथ श्लेषमस्तावे प्रस्तुतस्य वाच्यत्वेऽप्रस्तुतस्य गम्यत्वे समासोक्तिमाह-परोक्तिरिति । श्लिष्टैः श्लेषवद्भिः समानैर्भेदकैरुपमेयविशेषणैः परस्योप- 15 मानस्य या उक्तिः प्रतीयमानता सार्थद्वयस्य उपमानोपमेयलक्षणस्य कथनात् समासोकिः । विशेष्यस्यापि तु लित्वे श्लेष एव । विशेषणसाम्याच्च प्रतीयमानप्रस्तुतं प्रस्तुतविशेषकत्वेन प्रतीयते, विशेषकत्वाच्च व्यवहारसमारोपः । रूपसमारोपे तु रूपकमेव ॥ ' लहिऊणे 'ति । ' यस्याः स कोऽप्युत्कृष्ट उल्लासः सा तव विरहेण हेतुना दुर्बळा भूयात्' । ' णं' नन्वर्थे । अत्र जयलक्ष्म्या उपमेयाया 20 बाहुस्पर्शादिश्लिष्टविशेषणसाम्याद् अप्रकृताया उपमानरूपायाः कान्तायाः प्रतीतिरित्याह- अत्र 'जयलक्ष्मी ' इति । विशेषणानि तु कान्तया सह समानानि । यथा वा
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ 25 'उपोदो धृतो रागः सांध्योऽरुणिमा प्रेमचयेन' । ' निशामुखम् ' इत्यत्र समासगताया अपि निशायास्तच्छब्देन परामर्शो बुद्धौ अध्यवसानात् । अत्र निशा-शशिनोरुपमेययोरुपोढ रागादिश्लिष्टविशेषणमाहात्म्याद् नायकयोरुपमानयोर्व्यवहारप्रतीतिः । वामनोक्ता तु उपमेयस्यानुक्तौ समानवस्तुन्यासः