________________
काव्यादर्शनामसंकेतसमेतः [१० द० उल्लासः ] . यदाकाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥४३२॥ अत्र न रोमावलिः, धूमशिखेयमिति प्रतिपत्तिः। एवमियं भंड्यन्तरैरप्यूह्या। श्लेषः स वाक्य एकस्मिन्यत्रानेकार्थता भवेत् ॥१६॥
एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोऽर्थः स श्लेषः । उदाहरणम्उदयमयते दिमालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रा प्रवर्तयति क्रियाः। रचयतितरां स्वैराचारप्रवर्तनकर्तनं
बत बत लसत्तेजःपुनो विभाति विभाकरः ॥४३३॥ . अत्राभिधाया अनियन्त्रणाद् द्वावप्यभूपौ वाच्यौ । । एवमिति । आरोपपूर्वकोऽपड्नवोऽपतवपूर्वको वा आरोपः । क्रमाद् यथा__विलसदमरनारीनेत्रनीलाब्जखण्डा
___ न्यधिवसति सदा यः संयमाधःकृतानि । न तु ललितकलापे वर्तते यो मयूरे
वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥
इदं ते केनोक्तम् इत्यादि । अत्र 'नेदं स्वर्णवलयं किं तु स्मरचक्रम् ' इति । प्रतीतिः ॥ [७॥] 20
एकार्थेति । यथा गोशब्दो वागाधनेकार्थप्रत्यायने । अनेकोऽर्थ इति । 'विभां करोति' इत्येकमेव हि यौगिकमर्थ प्रतिपादयन् विभाकरशब्दः साधारणार्कभूपलक्षणार्थद्वयप्रतिपादकोऽनेकार्थः। उदयादिशब्दा अपि एकार्थप्रतिपादका एव सन्तोऽनेकार्थाः। तथा हि ' उदयलक्षण एक एवार्थ एकत्रोद्गमोऽन्यत्र समृद्धिः, दिशः ककुभोऽन्यत्र तत्स्थाः प्रजाः, मालिन्यं कालिमा कलङ्कश्च, निद्रा मुप्तिरा- 25 लस्यं च, क्रिया गमनादिका धर्मक्रियाश्च, स्वैराः स्वेच्छा अनीतिकारिणश्च, तेजो ज्योतिः प्रतापश्च ॥ अभिधाया इति द्वयोरप्यर्थयोः प्राकरणिकतया विवक्षितत्वादिति भावः। यत्र तु वक्ष्यमाणोपक्षेप्यर्थनिष्ठमुपक्षेपपराभिधासंसूचकत्वं
यथा