________________
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः } प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहनुतिः। किसलयादिदर्शनाद विमछितमिव मन इति तैयः'। अत्र यो यः पूर्वोऽर्थः किसलयादिकः स स उत्सरैः करादिभो रूपितः । तया हि 'किसळयान्येव करा एव कमलानि तान्येव मुखानि एव इन्दव' इति सर्वेषां परस्परं संघटनाद रसनासादृश्याद् रसनारूपकम् । ये चान्ये सहजाहार्योमयावयवादि रूपकभेदास्तेऽपि उक्तलक्षणेन संगृहीताः । विकल्पानन्त्याच दिङ्मात्रं दर्शितम् । यदुक्तं- 5 .
न पर्यन्तो विकल्पानां रूपकोपमयोरतः ।
विङ्मानं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ वैधयेणापीदं दृश्यते यथा
सौजन्याम्बुमरुस्थलीसुचरितालेख्यधुभित्तिर्गुण__ ज्योत्स्नाकृष्णचतुर्दशीसरलतायोगश्वपुच्छच्छटा ।
.. 10 यैरेषापि दुराशयात् कलियुगे राजावली सेविता ।
तेषां शूलिनि भक्तिमात्रफुलमे सेवा कियत्कौशलम् ॥ तयारोप्यमाणस्य धर्मित्वात् आविष्टलित्वेऽपि क्वचित् स्वतोऽसंभवसंख्यायोगस्य विषयसंख्यत्वं प्रत्येकमारोपा, तथा क्वचिजटावल्कलावलम्बिनः कपिलादावामय इत्यादौ नहि कपिळमुनेहुत्तम। आरोप्यमाणस्य 15 प्रकृतोपयोगित्वे परिणाम इति त्वयतनाः। परिणामे हि प्रकृतात्मतयारोप्यमाणस्य उपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । रूपके तु आरोप्यमाणस्य प्रकृतोपरञ्जकत्वमेव केवलं, न तु मकृतोपयोगः। सच सामानाधिकरण्यवैयधिकरण्यप्रयोगाद् द्विधा व्याख्येयः, यथा
तोर्खा भूनेशमौलिस्रजममरधुनीमात्मनासौ तृतीयस्तस्मै सौमित्रिमैत्रीमयमुपकृतवानान्तरं नाविकाय । व्योमप्राशस्तनीभिः शपरयुवतिभिः कौतुकोदञ्चदक्ष .
कृन्छादन्वीयमानस्त्वरितमथ गिरिं चित्रकूटं प्रतस्थे ।' -अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणा आन्तरत्वेन परिणता, आन्तरस्य मैत्रीरूपतया प्रकृते उपयोगात् । समासोक्तावपि आरोप्य- 25 माणं प्रकृतोपयोगि, अत एव तत्र तद्व्यवहारसमारोपः केवलं तत्र विषयस्यैव प्रयोगो, विषयिणो गम्यमानत्वाद्, इह तु द्वयोरपि अभिधानतादात्म्यात्तु तयोः परिणामत्वम् ।।
.
20