________________
२७३
[.१० २० उल्लासः] काव्यप्रकाशः।
संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
राजनराजति वीरवैरिवनितावैधव्यदस्ते करः ॥४२६।। अत्र जयादेभिन्नशब्दवाच्यस्य कुञ्जरत्वाधारोपे करस्यालानत्वाधारोपो युज्यते ।
अलौकिकमहालोकप्रकाशितजगत्रयः। स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥४२७॥ निरवधि च निराश्रयं च यस्य .
स्थितमनिवर्तितकौतुकप्रपश्चम् । प्रथम इह भवान्स कूर्ममूर्ति
यति चतुर्दशलोकवल्लिकन्दः ॥४२८|| इति च । अमालारूपकमपि परम्परितं द्रष्टव्यम् ।
किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति । • नलिनीनां कमलमुखैमुखेन्दुमिर्योषितां मदनः ।।४२९॥
इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम् ।
'भालान 'मिति । अत्रापि कुञ्जराधारोपनिमित्तः, आलानादेरारोपः। 15 मानसशन्दवद् एक एव शब्दोऽत्र उभयार्थों नास्तीति भेदभाक्ता । श्रियस्तु वनितात्वं साक्षाद् अनुपात्तमपि रूप्यते ।। परंपरितमपि श्लिष्टे वा वाचके शुद्धं ज्ञेयम् । तत्र श्लिष्टे शब्दे शुद्धं, यथा-'अलौकिके 'ति । 'महांचासौ आलोको ज्ञानं च'। 'वंशमुक्तेति वंशोऽन्वयः स एव सदशः शोभनो वेणुः' इति श्लिष्टो वाचकः । अत्र हि वंशलक्षणः 'परः' परस्य रानो रत्नारोपणोपायः ॥ 20
___अश्लिष्टे शब्दे शुद्ध, यथा-' निरवधी' ति । इह 'मवान्' इति पूज्यः । 'कूर्ममूर्तिः' इति पदे 'भवाने विष्णुः' इति अतिशयोक्तिः। 'चतुर्दशे 'ति । 'लोका एव वल्ली, तस्याः कन्दः'। अत्र वल्लीलक्षणः पर आरोपः परस्य विष्णोः कन्दत्वारोपणोपायः, वाचकश्च न श्लिष्टोऽत्रेति अश्लिष्टे शुद्धम् । तथा श्लिष्टाश्लिष्टशब्दत्वेन द्विविधमपि परंपरितं मालयापि स्यात्, ततश्च विद्वन्मा- 25 नसे'ति 'आलानम्' इत्यादौ च दर्शितमित्याह-मालारूपकमपीति । न केवलं शुदं 'अलोकिके 'त्युदाहरणद्वये दर्शितं यावन्मालारूपकमपि । एवं चतुर्धा परंपरितम् ॥ यो यः पूर्वोऽर्थः स स उत्तरेषामुपमेयमिति रूपकरसनापि, यथा'किसलये ' ति । 'कामोऽमीभिः पदार्थः कामिनां मनो जयति वशीकरोति ।