________________
२७२
यथा-
काव्यादर्श नामसंकेतसमेतः
[ १० ६० उल्लासः ].
विद्वन्मानसहंस वैरिकमलासंकोचदीश दुर्गामाणनीललोहित समित्स्वीकारवैश्वानर । सत्यमीतिविधानदक्ष विजयप्राग्भावभौम प्रभो
साम्राज्यं वरवीर वत्सरशतं वैरियमुचैः क्रियाः || ४२५|| - मानसमेव मानसम्, कमलायाः संकोच एवं कमलानामसंकोचः, दुर्गाणा मैं मागणमेव दुर्गाया मार्गणम्, समितां स्वीकार एव समिधां स्वीकारः, सत्ये प्रीतिरेव सत्यामप्रीतिः, विजयः परपराभव एव विजयोऽर्जुनः, - एवमारोपणनिमित्तो हंसादेरारोपः ।
यद्यपि शब्दार्थालंकारोऽयमित्युक्तम्, वक्ष्यते च, तथापि प्रसिद्धयनुरोधादत्रोक्तः । एकदेशविवर्ति हीदमन्यैरभिधीयते । भेदभाजि यथा
आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः
पूर्वाद्रिः करवालचण्डमहसो लोलोपधानं श्रियः ।
5
10
15
तदेवं चतुर्धा रूपकमुक्तत्वा परं परितं लिटालिनिबन्धनत्वेन द्विभेदं सत् प्रत्येकं माळा केवलरूपत्वाच्चतुर्विधमाह-नियतेनि ! नियतं निचितं सरोवरादेरारोपणमुपायो यस्य स तथा, परस्य हंसादेरारोपः । आदौ मानसस्य मानसत्वमारोप्यते, ततो हंसाद्यारोप इति परं परितशब्दार्थः ।। भेदभाजीति अश्लिष्ट इत्यर्थः ॥ • विद्वन्मानसे 'ति । 6 ' दक्षः' प्रजापतिः । विजयस्य प्राग्भावे पूर्वभावे 20 भीमसेनः सन् भीमः । 'वैरश्च' मिति ब्राह्मं वर्षशतं यावत् । अत्र मानस-कमलासंकोच - दुर्गा-मार्गण समित स्वीकार-सत्यमीति-विजय- शब्दाः शिष्टाः, तदारोपनिमित्तच हंसादेरारोप इत्याह-एवमारोपणेति । एवमारोपणं निमित्तं यारोपस्य ॥
ननु, मानसशब्दपरिवृत्तौ पर्यायान्तरे सति नालंकार इति शब्दालंकारत्वं, 25 अवरस्मिंस्तु परिवर्तितेऽपि सति न स हीयत इत्यर्थालंकारता । ततश्च शब्दालं कारः परं परितरूपकं, न तु अर्थालंकार, इत्याशङ्कयाह-यथपोति ॥ उक्तमिति शब्दश्लेषे पुनरुक्तवदाभासे च ॥ वक्ष्यत इति संकरालंकारे ॥ एकदेशेति । परंपरितमेव उद्भटादिभिरेक देशवृत्तीत्युच्यते ॥