________________
5
[ १०० उलाखः ] काव्यप्रकाशः ।,
समस्तवस्तुविषयं श्रौता आरोपिता यदा ॥९३।। आरोपविषया इबारोप्यमाणा यदा शब्दोपात्ताः, तदा समस्तानि वस्तूनि विषयोऽस्येति समस्तवस्तुविषयम् । आरोपिता . इति बहुवचनमविवक्षितम् । यथा-- ज्योत्स्नामस्मच्छरणधवला बिभ्रती तारकास्थी
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद् द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥४२१॥ अत्र पादत्रये । अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेनि 10 रूपकपरिग्रहे साधकमस्तोति" तत्संकरीशङ्का न कार्या । "
श्रीता आर्थाश्च ते यस्मिन्नेकदेशविवति तत् । युगपद् अध्यारोपस्य आरोपः शब्दोपचारस्य अर्थाविनाभूतत्वात् ॥ अनपह नुतभेदयोरिति । उपमानोपमेययोरभेदप्राधान्यात् , वस्तुतस्तु भेद एव । अपहनुतभेदयोस्तु अतिशयोक्तिर्वक्ष्यते ॥ आरोपविषया ज्योत्स्नादयः आरोप्यमाणा 15 भस्मादयः ॥ अविवक्षितमिति । तेन आरोपितो आरोपित इति च द्रष्टव्यम् ।।
'चन्द्र एव मुद्राकपालम्' ।। अत्र पादत्रयमिति । समस्तवस्तुविषयस्य उदाहरणमित्यर्थः । चतुर्थपादे तु आरोपपूर्विकापहुति[:] स्थलशब्दश्च अपहवद्योतकः । 'न्यस्तं विश्वस्थगितहृदयं लक्ष्म सिद्धाञ्जनं तद्' इति तु चतुर्थपादे रूपकेणैव निर्वाहः । 'रात्रिरेव कापालिकी' इति रूपकमुपमानप्राधान्यात् । 20 यदा तु 'रात्रिः कापालिकी वा इति तदा 'उपमितं व्याघ्रादिभि' इति समासे उपमेयप्राधान्ये उपमैवेति किं रूपकमुपमा वेति संदेहसंकरालंकारः पामोषीत्याह -अन्तर्धानरसिकत्वमिति । अत्र हि रसिकत्वलक्षणो धर्म एव रूपकपरिग्रहे साधकं प्रमाणम् । रूपके हि योगिनीत्वं रात्रेरारोपितं, तस्य चारोपितस्य योगिनी. लक्षणस्य रसिकत्वं धर्मोऽतीव अनुगुणः, प्रसिद्धतरत्वेन आनुकूल्यात् । आरोपि- 25 तस्य च धर्मानुगुण्ये रूपकमेव, उपमायां तु रारारोपविषयायाः प्राधान्यं, तस्याश्च अचेतनत्वाद् रसिकत्वधर्मः न तु गुण इति न संकरः ॥९१॥६॥
यत्र चैकत्र विषये आरोप्याः श्रौताः शब्दोपात्ताः, विषयान्तरे तु अर्थागम्याः, तदा एकदेशविवर्तीत्याह-श्रौता इति । श्रुतिनिरन्तरार्थनिष्ठोऽभिधा