________________
२६८
काव्यादर्शनामसंकेतसमेत:
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो जु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ||४२०॥ तद्रूपकमभेदो य उपमानोपमेययोः । अतिसाम्यादन पढ्नुतभेद योरभेदः ।
[ १० दं० उक्लास: ]
यत्र संशय एव पर्यवसानं स शुद्धः, यथा - ' अस्था 'इति । उर्वशीं प्रति पुरूरवाः माह । 'प्रजापतिः किं कान्तिमदश्चन्द्रोऽथ मदनः, किं पुष्पाकरो मासः । अत्र ' स खलु तुरगैः" इत्यादिवद् भेदकं किमपि नोक्तं, 'चन्द्रो ह्येवंविधः' इत्यादेरभणनात् । 'नामितं तु गगनं स्थगितं तु ' अत्र उत्प्रेक्षाश्रयेण 10 संदेहः, तथा हि तिमिरकर्तृकायां शैलगगनादिव्याप्तौ रञ्जितत्वमुत्प्रेक्षितं, गग नानमितत्वाद्युत्प्रेक्षान्तरसंभवात् संदेहमागतम् । अन्ये तु 'नुशब्दः संभावना - धोतक इत्युत्प्रेक्षैवेत्याहुः ॥ ९० ॥ ॥
सादृश्याश्रयेण भेदाभेदतुल्यत्वेऽलंकारा निर्णीताः, अभेदमाधान्ये त्वाह - तद्रूपकमिति । रूपयति एकतां नयतीति रूपकम् । विषयिणा चन्द्रादिनारोप्य 15 माणरूपेण आरोपविषयस्य मुखादे रूपवतः करणाद्, यथा 'मुखचन्द्रः ' इत्यादौ सारोपगौणीलक्षणा-विषये, अत्र ह्युपमेयशब्दो धर्मिवाची द्वितीयेन उपमानशब्देन तथाभूतेन अनुपपद्यमानसामानाधिकरण्यस्तस्यैव उपमानपदस्य स्वाभिधेयाविमाभूतगुणवृत्तितां नियमयति । यथा 'नीलमुत्पलम्' इत्यत्र यद्यपि नीलशब्दस्य गुणः प्रवृत्तिनिमित्तमुत्पलशब्दस्य तु उत्पलजातिस्तथापि एकस्मिन् 20 द्रव्ये किलैकार्थसमवाया वृत्तिरिति सामानाधिकरण्यमुत्पाद्यते, न तथा 'मुखचन्द्रः' इति रूपके सामानाधिकरण्यमित्येकस्य गुणवृत्तिता परिकल्प्यते, ततश्चन्द्रगुणसदृशा मुखस्य गुणा इति सिद्धम् । तथा हि चन्द्रेण स्वगुणा लक्ष्यन्ते, तैर्मुखगुणाः, तैरपि मुखं लक्षणायाश्च प्रयोजनं ताद्रूप्यादिप्रतीतिः, ततच सामानाधिकरण्यमुपपद्यते । अत एव भेदेऽपि अभेदमतोतिः । साधर्म्य तु अनुगत- 25 मेव । यदाहु:
उपमैव तिरोभूतभेदा रूपकमिष्यते ॥
तेन 'आयुर्धृतं, नदी पुण्या' इत्यादौ न रूपकम् || कार्यकारणभावादि ात्र निमित्तान्तरं न साधर्म्यमित्याह - अतिसाम्यादिति । इह च शब्दस्यार्थस्य च