________________
[१०० उता] काव्यप्रकाशः।
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥२२॥ भेदोक्तौ यथाअयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं - समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥४१८॥
भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो, यावनिश्चयान्तोऽपि संदेहः स्वीकृतः । यथा
इन्दुः किंक कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥४१९॥ 10 किंतु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इत्युपेक्षितो
भट्टोद्भटेन । तदनुक्तौ यथापुंगवः', 'पयो ददातीव स्त्रीगवी' इत्युत्पेक्षा ।। 'कस्तूरीतिलकं तिकालफलके!] देव्या मुखाम्भोरुहे रोलम्बन्ती' इत्यादौ तु उपमोत्प्रेक्षा। यद्यपि सर्वपातिपदिकेभ्यः किषित्युपमानात् किबिधौ आमुखे उपमाप्रतीतिः, तथापि उपमानस्य 15 प्रकृते संभवौचित्यात् संभावनोत्याने उत्पेक्षायां पर्यवसानम् । आनन्त्यं वास्या इति न प्रतन्यते ॥ ___ ससंदेहस्त्विति । प्रस्तुतवस्तुवर्णनार्थ यत्र संशयः संशयवद् वचः प्रयुज्यते उपमानाभेदपूर्वमुपमेयभेदकस्योक्तौ भेदकस्यानुक्तौ वा तत्र ससंदेहोऽलंकारः सह संदेहेन वर्तते इति ॥ स च विधा निश्चयगर्भो निश्चयान्तः शुद्रश्च। यः संशयोपक्रमो-20 निश्चयमध्यः संशयान्तश्च स निश्चयगर्भः, यथा-'अय 'मिति । अत्र 'तुरगैः इत्यादि भेदकस्योक्तौ संशयः । अत्रोपमेयस्य तद्भावमुपमानेनोक्त्वा पश्चाद् भेदे उच्यमाने यद्यपि आमुखे रूपकावभासः, पश्चाद व्यतिरेकाकारः, तथापिन्नास्मिअलंकारद्वये विश्रान्तिरिति'नु''किम्' इत्यादिशब्दोपादानात् संदेहे एव वाक्यार्थस्तस्य परिकरबन्धार्थ रूपकव्यतिरेको आमुखे प्रतिभासेते इति तत्संकराशङ्का 25 न कार्या। यत्र संशयोपक्रमेऽपि निश्चयपर्यवसानं स निश्चयान्तः, यथा-'इन्दु' रिति । अत्र क कलङ्कः' इत्यादिभेदकोक्तौ निश्चयान्तः संशयः ॥ अत्र 'निधितम्' इति वचनेन साक्षादुपाचत्वानिश्चयस्येति न तस्य व्यज्यमानत्वमित्याशङ्कयाह ---कि स्विति।