________________
२७०
काव्यादर्शनामसंकेत समेतः [ १० द० उल्लास
केचिदारोप्यमाणाः शब्दोपात्ताः केचिदर्थसामर्थ्यादवसेया इत्येकदेशे "विवर्तनादेकदेशविवर्ति । यथा
जस्स रणन्तेरए करे कुणन्तस्स मण्डलग्गल अम् । रसमुही वि सहसा परम्मुही होइ रिउसेणा ||४२२॥ 'अत्र रणस्यान्तः पुरत्वमारोप्यमाणं शब्दोपात्तम् । मण्डलाग्रलताया नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वमर्थ सामर्थ्यादवसीयत इत्येकदेशे विशेषेण वर्तनादेकदेशविवर्ति ।
साङ्गमेतत्
उक्तद्विभेदं सावयवम् । निरङ्गं तु शुद्धम् ।
यथा
व्यापारः ॥
कुरङ्गाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेद्यमिनवां
प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिज: प्रेमलतिकाम् ||४२३॥
अस्य रणान्तःपुरे करे कुर्वतो मण्डला लताम् || साङ्गमेतदिति सूत्रम् । न केवलं यत्र तस्यैव रूपणं, अपि तु तदङ्गस्यापि अङ्गमत्रोपकरणमात्रं, न तु आरम्भकमेव, लक्ष्याव्याप्तिमसङ्गात् । सहाङ्गेनाव• यवेन वर्तते, सावयव मित्यर्थः ॥
5
10
ननु, व्याघ्रादिद्वारेण इव - शब्दलोपी समासो दृश्यते, लुप्तोपमायां सोsपि स्यादिति संदेहसंकरः मामोति । सत्यम्, यत्रान्यतरपरिग्रहे साधकप्रमाणाभावस्तदितरस्य वा परिहारे न स्याद्वाधकं प्रमाणं, तत्रैव उभयत्रसङ्गः,
15
20
एतच समस्तवस्त्वेकदेशविवर्तिविषयतया द्विभेदमपि पूर्वोदाहरण योदर्शितमित्याह- उक्तं द्विभेदमिति ॥
निरङ्गं सूत्रम् । निरवयत्रमेक एव, यत्रारोपस्य विषयोऽवयवान् अरूपयित्वाऽवयविमात्रेण रूपणं क्रियत इत्यर्थः । 'प्रेमलतिका 'मिति । अत्र केवलोऽयेव लतालक्षणो रूपितः, न पुनस्तदवयवाः पत्रादय इति शुद्धत्वम् । 'प्रेमैत्र 25 लतिका' इति मयूरव्यंसकादित्वादेव शब्दलोपी समासः ॥