SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [१० ६० उल्लास: ] . विपर्यास उपमेयोपमा तयोः ॥११॥ तयोरुपमानोपमेययोः, परिवृत्तिाद् वाक्यद्वये, इतरोपमानव्यवच्छेदपरा, उपमेयेनोपमाँ इति उपमेयोपमा । उदाहरणम्कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृति तिरिव धरणी सततं विभाति बत यस्य ॥४१५॥ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । , समेनोपमानेन । उदाहरणम्'विलासायुधः कामः, लासः क्रीडनम् ।' अत्र 'सैव नितम्बिनीव' इति । 'तद्विलासा इव' इत्येतच्च भेदाभावाद् उपमानतया विश्रान्तिमलभमानमन्य- 10 व्यावृत्तौ लक्षणयावतिष्ठते । । निघ्नन्नभिमुख[:] शूरानेकोऽपि बहुशः परान् । संग्रामे विचरत्येष पुरुषः पुरुषो यथा ॥ अत्र तु उपमेयस्य पुरुषशब्दस्य जातिमात्र प्रवृत्तिनिमित्तं, द्वितीयस्य तु पुरुषशब्दस्य शब्दशक्तिमूलव्याचपरतया शौर्यचातुर्यावदातकर्मवचन्त्वमिति 15 भेदे सत्यपि उपमेव ॥२॥ ___ उपमेयेनोपमानधुराधिरूढेन करणात्मना उपमा, उपमानस्योपमेयतापादनम् उपमेयोपमा । — कमलेवे 'ति । अत्र पूर्वस्माद् वाक्यात् सादृश्यस्यावगतत्वात् पुनरिह सादृश्यमभिधीयमानमन्यार्थत्वेन सति अन्यव्यावृत्तिं लक्षणयावगमयति ॥८९॥३॥ . . . समावनमिति । संभावनमभिमानस्तर्क ऊहाध्यवसाय उत्प्रेक्षेति यावत् प्रकृतगतगुणक्रियाभिसंबन्धात् प्रकृतस्य प्राकरणिकस्य असन्तो ये धर्मा गुण. क्रियालक्षणास्तेषां प्रत्येकं भावाभावाभ्यां संभावनं, तद्योगोत्प्रेक्षणम् । अत एवान्यधर्माणां स्वधर्मिभूताद् वस्तुन उत्कलितानां रसभावाद्यनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणम् उत्प्रेक्षा। सा च मन्ये-प्रभृतिभि?त्यते । 25 यदुक्तम्. .. मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यच्यते शब्दैरिव-शब्दोऽपि तादृशः ।। 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy