________________
[ १० द० उल्लासः ]
काव्यप्रकाशः ।
" अनयेनेव राज्यश्री र्देन्येनेव मनस्विता ।
मला साथ विषादेन पद्मिनीव हिमाम्भसौ ||४१० ॥ इत्यभिन्ने साधारणे धर्मे,
ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाष्ट सर्वलोका नितम्बिनी ॥ ४११ ॥ भन्ने वा तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा, यथोत्तरमुपमेयस्योपमानैत्वेन पूर्ववदभिन्नभिन्नधर्मत्वे अनवरतकनक वितरणजललं भृतकर तरङ्गितार्थिततेः । भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥४१२ ॥ मतिरिव मूर्तिर्मधुरा मूर्तिवि प्रभा प्रभावचिता । तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ||४१३ ॥ इत्यादिका शनोपमा च" न लक्षिता । एवंविधवैचित्र्यस हस्रसंभवात् । उक्तभेदानतिक्रमाच्च ।
उपमानोपमेयत्वे एकस्यैवैकवाक्यगे ।
अनन्वयः
२६३
5
अविद्यमानोऽन्वयः सदृशवस्त्वन्तरगमनं यस्य असौ अनन्वयः । एतत्सदृशमन्यन्नास्तीति असाधारण्यप्रतिपत्तये प्रकृतस्य वस्तुन एकस्यैव उपमानोपमेयत्वे वास्तवस्य द्वित्वस्य अविद्यमानत्वाद् उभयनिष्ठत्वाच्च उपमानोपमेयभावव्यवस्थितेनपमा । समारोपितरूपस्य द्वित्वस्य चाभ्युपगमे कष्टकल्पना ॥
10
15
उपमानान्तरसंबन्धाभावोऽनन्वयः । उदाहरण --
न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैत्र नितम्बिनी । यावद्विलासायुधलासवासास्ते तद्विलासा इव तद्विलासाः ॥ ४१४ ॥ वाद्युपमेयलोपे एकः, त्रिलोपे एकः सर्वमीलने एकोनविंशतिः, पूर्णाभेदाश्च षट् ॥ 20 मालोपमादयस्तु आनन्त्याद् उपमायाश्च नातिरिच्यन्त इति न पृथग् लक्षिता इत्याह- ' अनयेनेवे 'ति । अत्र म्लानिस्वलक्षणे एकस्मिन् धर्मे । ' ज्योत्स्नेव ' इत्यत्र तस्मिन् धर्मे नयनानन्दादिके भिन्नेऽनेकस्मिन् मालोपमा, रसनासादृश्याद् रसनोपमा च न लक्ष्यत इत्याह- इत्यत्र यथोत्तरेति । ' अनवरते 'त्यत्र विमलत्व लक्षणेऽभिन्न धर्मत्वे तु ' मतिरिवे 'ति ॥ ८८ ॥ १ ॥
1
25