________________
२६२
काव्यादर्शनामसंकेतसमेत: [१० द० उल्लासः ]
त्रिलोपे च समासगा ॥१०॥ उदाहरणम्तरुणिमनि कृतावलोकना ललितविलासविलब्धविग्रहा। स्मरशैरविसरीरितान्तरा मृगनयना नँयते मुनेर्मनः ॥४०९॥
अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ । क्रूरस्याचारस्यायःशूलतयाध्यवसायात्, अयःशूलेनान्विच्छति 'आयःशूलिकः' इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैदण्यधर्मवादीनां लोपे त्रिलोपेयमुपमा। एवमेकोनविंशतिलृप्ताः पूर्णाभिः सह पञ्चविंशतिः ।
धर्मवाद्युपमानानां त्रयाणां लोपे लुप्तामाह-त्रिलोप इपि । विलासाय 10 विलब्धो दत्तो विग्रहो यया । विशरारितं विभिन्नम् । 'स्मरशरविशरांचित' इति पाठान्तरम् । 'मृगस्य नयने' इति प्रथमं तत्पुरुषः, ततो 'मृगनयने इव नयने यस्याः' इति सप्तम्युपमानोपमानपूर्वस्य समास उत्तरपदलोपश्चेत्यत्र गुणद्योतकोपमानानां त्रयाणां लोपः । यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिः, तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयः, न त्वस्य 15 उपमासमास्येति नास्ति स्थानमुपमायास्त्रिलोपिन्याः। अत एवोक्तं 'यदा समासलोपो' इति। तदा त्रिलोपे समासगा इति योगः ॥ केचित्तु 'अयःशूलिकः' इत्यादौ क्रूराचारोपमेयस्य तैक्ष्ण्यधर्मस्य इवादीनां च लोपे त्रिलोपिनीमुपमामाहुः, तन्न युक्तमित्याह वृत्तिकारः-क्रूरस्येति । क्रूराचारोऽर्थान्वेषणो. पायादिः अयःशुलतयाऽध्यवसीयत इत्यतिशयोक्तिरेवेयम् ॥ न तु करेति । 20 तथा हि 'अयाशूलम् ' उपमान; 'अर्थान्वेषणोपायः' उपमेयः, तैक्ष्ण्यादिधर्मः, उपमानोपमेयभावश्चेति चतुष्टयं गम्यते, तन्मध्याच शब्दस्पृष्टमुपमानम् 'अयःशूलेन' इति, शिष्टस्य तु त्रयस्य अर्थसामर्थ्याद् अवगतिरिति त्रिलोपे नोपमा। एवं ' दाण्डाजिनिकः' इत्यादावपि । तथा हि दम्भस्य दण्डाजिनतयाध्यव सितस्य जीवनक्रियाकारणत्वं दण्डाजिनेन अर्थान् अन्विच्छति दम्भेन जीवतीति 25 दाण्डाजिनिको दाम्भिक इत्यर्थः । भाष्यकारस्यापि अतिशयोक्तित्वमेवात्र इष्ट, यदाह-न तिङन्तेनोपमानमस्ति ।' आख्यातं नोपमानं भवतीत्यर्थः। एवं वर्तमानसामीप्यादावपि अतिशयोक्तिभेदत्वं यथाप्रतीति योज्यम् । एवं धर्मलोपे पञ्च, उपमानलोपे द्वौ, वादिलोपे षद, धर्मवाद्योलौंपे द्वौ, धर्मोपमानलोपे द्वौ,