________________
काव्यादर्शनामसंकेतसमेतः [ १० द० उल्लासः ] . स्वाधीनैपतिका कान्तं भैजमाना यथा लोकोत्तरचमत्कारभूस्तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम् , वैचित्र्यं चालंकारः, तथापि न ध्वनिगुणीभूतव्यायव्यवहारः। न खलु व्यङ्गयसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः, अपि तु वाच्यवैचित्र्यप्रतिभासादेव । रसादिस्तु 5 व्यङ्गयोऽर्थोऽलंकारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैवं तदलंकारा उदाहताः। तद्रहितत्वेन तूदाहियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धाभिधानमिति न चोदनीयम् ॥
तबद्धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः।। .... धर्मः साधारणः । तद्धिते कल्पबादौ त्वार्येव । तेन पश्च । .
उदाहरणम्
धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः।
करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥३९७॥ १ स्फुटं चेत् प्रतीयमानं तदा ध्वनिव्यवहारः, अथ अस्फुटं तदा गुणीभूत. व्यङ्ग्यव्यवहार इत्याशयेनाह-स्वाधीनेति ।। अलंकारान्तरं चेति । तद्धि अनुप्रासादि-15 श्लिष्टतरमपि काव्ये यदि अव्यभिचारितयैव गण्यते, तदा तेन सहोपमादीनां संकरसंसृष्टी स्यातामिति केवलतयैव एषां विनावकल्पेत ॥ तदिति । स चास्फुटतरो रसादिरयस्तथा 'अलंकारान्तरम्' इति नपुंसकैकशेषः । अस्फुटश्च रसादिर्गुणीभूतविषय इति अस्फुटतरोऽत्र गृह्यते, इति 'संस्पर्श' पदेनात्र ध्वनितम् ॥ तद्रहितत्वेनेति । रसाधलंकारान्तराभ्यां विना वैरस्यं वहन्तीति 20 न विरोधः ॥८५॥ . लुप्तामाह-तदिति । पूर्णोपमावद् लुप्तोपमापि वाक्यसमासयोः श्रौत्यार्थी चेति द्वि-द्विभेदा; तद्धिते तु आर्युव, न श्रौती; इत्येकस्य धर्मस्य लोपे पञ्चभेदा ॥
वाक्ये श्रौती लुप्ता, यथा-'धन्यस्ये 'ति । ' 'करणीयम्' काव्य- 25 व्यापारः। 'सत्यम्' इति निर्मिथ्यम् । 'त्रितयमपि तथाहादकं यथामृतम् इत्याहादकत्वादिधमलोपः॥