________________
[ १० द० उल्लासः ] काव्यप्रकाशः।
२५९ आकृष्टकरवालोऽसौ संपराये परिभ्रमन् । प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥३९८॥ करवाल इवाचारस्तस्य वागमृतोपमा। विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे ॥३९९॥ उपमानानुपादाने वाक्यगाथ समासगा ॥८८॥
5 सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स ।
दीसइ अहवणिमुंम्मइ सरिसं अंससेमित्तेण ॥४०॥ वाक्ये आर्थी, यथा - 'आकृष्टे'ति । अत्र 'कृतान्तेन समः' इत्यत्र उपमेये एव सदृशत्वलक्षणस्य स्वार्थस्य विश्रान्तिः, तेन तत्सद्भावे आर्थी। तथा क्रूरादिधर्मो नोपात्तः ॥
lo समासे श्रौती, यथा-'करवाले 'ति । अत्र 'इवेने 'ति वक्तव्यबलाद नित्यसमासः, 'दारुणः' इति धर्मलोपश्च ॥ . समासे आर्थी, यथा-'अमृतोपमा' इति । अत्र 'माधुर्यादि'-धर्मलोपः ।।
तदिते आर्थी, यथा-'विषकल्पम् ' इति । 'यदि वेसि तद् जीवसि' इति संबन्धः॥ अत्र दारुणधर्मलोप इवार्थश्च कल्पप्पत्ययेन साक्षाद् अभिहितः। 15 'ईषद् अपरिसमाप्तं विषम्' इति वचनवृत्त्या सामानाधिकरण्यरूपया यद्यपि रूपकच्छायां भजते, तथापि पातीतिकेन रूपेण उपमैव । तथा हि अत्र 'विषसदृशं मनः' इत्ययमर्थः प्रतीयते, न तु 'ईषद् अपरिसमाप्तं विषमेव ' इति ईपदपरिसमाप्तिविशिष्टे प्रकृत्यर्थसहशेऽर्थे कल्पबादीनां स्मरणात ॥
ननु, 'विषकल्पं मनः' इति सामानाधिकरण्यं मनःशब्देन प्राप्नोति, 20 तस्यार्थान्तरवोचित्वात् । सत्यम, यथा परिहतस्वार्थः स्वार्थगतगुणमात्रमत्यायके गोशब्दः सदृशगुणवति वाहीके वर्तत इति स्यात् सामानाधिकरण्यं गौर्वाहीक इत्यत्र गोगुणसदृशगुणो वाहीक इत्यर्थात्, तथा गुणहीनविषजातीयवाची विषकल्पशब्दः सदृशजातौ मनसि वर्तिष्यत इति स्यात् सामानाधिकरण्यम् । गुणहीनं हि विषं विषकल्पशब्देन उच्यते। न च गुणहीनेन विषेण विषजातीयेन 25 तुल्यं मन इति तदपि विषशब्देन अभिधायिष्यते, विषजातीयसदृशजाति मन इत्यर्थात् ।।
वाक्ये उपमानलोपे लुप्ता, यथा-'सअले 'ति । 'सरसकाव्यस्य सदृशं