SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २८७ [ १०८० उल्लासः ] काव्यप्रकाशः। अत्यायतैनियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः । शौरि जैरिव चतुर्भिरदः सदा यो __ लक्ष्मीविलासभवनैर्भुवनं बभार ॥३९४॥ अवितथमनोरथपथ___ प्रथनेषु प्रगुणगरिमगीतश्रीः। सुरतरुसदृशः स भवा नभिलषणीयः क्षितीश्वर न कस्व ॥३९५॥ . गाम्मीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ॥३९६॥ 10 पूर्ववद् उपमेयादि । सम-शब्दश्चात्र उपमाने उपमेये च विश्रान्तः, तेन चोभयत्र विश्रान्तेनापि उपमानोपमेययोरेकतरस्य सादृश्यमर्थादेव गम्यते ॥ __ समासे श्रौती पूर्णा, यथा-' अत्यायतै 'रिति । ‘भुजैरिव इत्यत्र ' इवेन'. इत्यादिना नित्यसमासः । ये तु इवेन नित्यसमासं नेच्छन्ति तन्मते वाक्योपमेयम् ॥ is . समासे आर्थों पूर्णा, यथा-'अवितथे 'ति । 'सुरतरुणा सदश' इति सदृश-शब्देनोपमेये विश्रान्तेन उपमेयगतं सादृश्यं स्वकण्ठेनाभिहितम् । उपमाने च तस्यार्थात पतिपत्तिः, उपमेयवर्तिसादृश्यविचारेण उपमानोपमेयत्वावगतेः । बहुव्रीहौ तु उपमाने विश्रान्तेरुपमानगतसादृश्यपर्यालोचनया उप मेयस्य उपमेयत्वावगतिः ॥ . 20 ": तद्धिते श्रौती पूर्णा, यथा-'गाम्भीर्ये 'ति । भुजंगवद् ' इत्यत्र तत्र तस्यैव' इत्यनेन वतेस्तद्धितस्य विहितत्वात् श्रौती । भुजंगः कामुका, स चात्र अब्धिः। अम्बररत्नं सूर्यः। तथा 'सूर्य' उपमान, 'स' इति उपमेयः, 'दुरालोकत्व' साधारणो धर्मः । अम्बररत्नेन तुल्यः, 'तेन तुल्यं क्रिया चेत् वतिः' इत्यनेन क्रियातुल्यत्वे विहितो वतिरुपमेये शाब्देन वृत्तेन विश्रान्तस्तुल्यत्वपर्यालोचनया 32 उपमानस्य उपमानत्वं गमयतीति ॥ ३. तद्धिते पूर्णा आर्थी चोपमा, यया क्रियातुल्यत्वे 'ब्राह्मणवद् अधीते क्षत्रियः' इत्यत्र उपमेये यद् अध्ययनक्रियाद्वारेण विश्रान्तं तुल्यत्वं तत्पर्यालोचनया अर्थाद् उपमानत्वावगतिः । एवमन्यत्रापि ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy