________________
२५६
5
काव्यादर्शनामसंकेतसमेत. [१०६० उल्लास.] विहितस्य वरुपादाने। 'तेन तुल्यं मुखम् '-इत्यादावुपमेय एव, 'तत्तुल्यमस्य'-इत्यादौ चोपमान एव, 'इदं च तच्च तुल्यम्' इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिपदोपादान आर्थों । तद्वत् , 'तेन तुल्यम्' (पा० सू० ५। १ । ११५) इत्यादिना विहितस्य वतेः स्थितौ।
' इवेन 'विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च' इति नित्यसमास इवशब्दयोगे समासगा।
क्रमेणोदाहरणम्स्वप्नेऽपि समरेषु त्वां विजयश्रीन मुश्चति । .. 10 प्रभावप्रभवं कान्तं स्वाधीनपतिका यया ॥३९२॥ ..
चकितहरिणलोललोचनायाः
क्रुधि तरुणारुणतारहारिकान्ति । सरसिजमिदमाननं च तस्याः
सममिति चेतसि संमदं विधत्ते ॥३९३।। 'इदं च 'इति चन्द्रबिम्बं च मुखं च तुल्यम् ॥ साम्यपालोचनयेति । सममेव साम्यं साधारणो धर्मः । तुल्यता द्विष्ठरूपं सादृश्यम् । न तु तुल्यादिशब्दादेव साम्यप्रतीतिः, अपि तु अर्थात् , तुल्यादीनां पदानामुपमानोपमेययोरेकतरत्रैव विश्रान्तेः, अन्यत्र तु तद्गतसादृश्यपालोचनया तत्संबन्धित्वाचगतिः, तेनासौ आर्थी ॥ तद्वदिति, आर्थीत्यर्थः ।।
20 ननु, समासोपमा श्रौती कथं स्यात्, न हि इवेन सह समासो घटतेइत्याशङ्कय इवेन सह समासपतिपादकं 'कु-गति-पादय' इति सूत्राश्रितं वक्तव्यमाह वृत्तिकारः-' इवेने ति ॥
वाक्ये पूर्णोपमा श्रौती, यथा-' स्वप्नेऽपि 'इति । अत्र 'श्रीः 'इति उपमेथे, 'स्वाधीनपतिका ' इति उपमान, मोचनलक्षणः साधारणो धर्मः, 'यया' 25 इति उपमावाचकम् ॥
वाक्ये आर्थों पूर्णा, यथा-' चकिते 'ति । 'तरुणारुणेन तरुणारुणवच्च तारा विसर्पिणी मनोहारिणी कान्तिर्यस्य तत् तथा पचं मुखं च ' । अत्रापि
15