________________
[१०० उल्लासः ] ... काव्यप्रकाशः।
तामतीतिरिति यद्यप्युपमानविशेषणा एते तथापि शब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत्संबन्ध प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमा । तथैव, 'तत्र तस्येव' (पा० सू० ५। १ । ११६) इत्यनेनेवार्थे
इव-वद्-वा-यथा-शब्दाः समान-निभ-संनिभाः । तुल्य-संकाश-नीकाश-प्रकाश-प्रतिरूपकाः । प्रतिपक्ष-प्रतिद्वन्दि-प्रत्यनीकविरोधिनः । सदृक्-सदृश-संवादि-सजातीयानुवादिनः । प्रतिबिम्ब-प्रतिच्छन्द-सरूप-सम-सप्रभाः । सलक्षण-सदृक्षामाः सपक्षोपनतोपमा । कल्प-देशीय-देश्यादि प्रख्य-प्रतिनिधी अपि । सवर्ण-तुलितौ शब्दों ये च तुल्यार्थवाचिनः । समासश्च बहुव्रीहिः शशाङ्कवदनादिषु । स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति । आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संधत्ते हसतीर्ण्यत्यसूयति । तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति । तेन सार्घ विग्रहाति तुलां तेनाधिरोहति । तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते । तमन्वेत्यनुबध्नाति तच्छीलं तनिषेधति ।
तस्य चानुकरोतीति शब्दाः सादृश्यसूचिनः ॥ - उपमानादिचतुष्टयं यत्र प्रयुज्यते सा पूर्णोपमा । यथा 'वागर्थाविव संपृक्तौ' इत्यादि । उपमानस्य चन्द्रादेविशेषणा उपमानतया विशेषरूपया व्यवस्थापकाः ॥
श्रुत्यैवेति । अभिधाव्यापारेण । यथा षष्ठी यत उत्तरा तदेव विशिनष्टि श्रत्यैव संबन्धमुभयाधारमभिधत्ते, तथैव अयं यथा-वादिरुपमानोपमेययोरेक- 25 सरस्मिबपि अविश्रान्तः श्रौतेन रूपेणोभयाघारमुपयानोपमेयभाष द्योतयतीति श्रौती ॥ तत्सद्भावे, यथा-इव-वा-सद्भावे ॥ तथैवेति, श्रौती'स्यर्थः । इवार्थे वतेविहितत्वाद् इव-शब्दवच्छौतेन रूपेणोभयानुयायितयोपमानोपमेयत्वावगतिः । तेन 'इति चन्द्रेण तुल्यं मुखम् : ।। ' तद् 'इति चन्द्रबिम्ब तुल्यं मुखस्य ।