SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेत: [१० द० उल्लासः ] भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा । भेदग्रहणमनन्वयव्यवच्छेदाय। पूर्णा लुप्ता च, उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा, एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । सानिमा। औत्यार्थी च भवेदाक्ये समासे तद्धिते तथा ॥८७॥ अग्रिमा पूर्णा । यथैववादिशब्दा यत्परास्तस्यैवोपमानदृश्यते । सत्यम् , अत्रापि कामयते प्रियमिति यौगिकत्वाश्रयेण कामिनीशब्दात् .. प्रतीयमानहृदयस्थितदुर्लभमनोहारिप्रियतमाया गण्डश्चन्द्रादपि अधिकचमत्का- 10 रितया प्राधान्येन प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्धयप्रसिद्धी अङ्गीक्रियेते। येऽपि प्राकरिणकमुपमेयं, अमाकरिणकमुपमानमिति आद्रियन्ते तैरपि कविप्रसिद्धिरङ्गीकार्येव । तेन सत्त्वज्ञेयत्वपमेयत्वादिसाधम्य नोपमा । तथा 'कुम्भ इव मुखम्' इत्यादि शृङ्गारादौ च । हास्यादौ तु न दोषः । कार्यकारणादिकयोः साधर्म्यस्य असंभवाद् उपमानोपमेययोरेव साधर्म्यं भवतीति तयोरेव समान- 15 धर्मेण संबन्धे उपमा । साधर्म्य च देशादिभिर्भिन्नानां गुणक्रियादिसाधारणधर्मवत्त्वमित्याह-भेदग्रहणमिति । भेदे हि एकस्यैव उपमानोपमेयत्वेऽनन्वयो वक्ष्यते । तत्र देशेन उपमानोपमेययोर्भेदः, यथा 'मथुरेव पाटलिपुत्रमाढयजनपदम्' । कालेन यथा 'वसन्त इव हेमन्तः कामिनीसुखहेतुः' । गुणेन, यथा 'गौरीव श्यामा सुभगा'। क्रियया, यथा 'नृत्तमिव गमनमस्याः सविलासम्'। 20 जात्या, यथा 'विप्र इव क्षत्रियः श्रोत्रियः । द्रव्येण, यथा 'शिव इव केशव पूज्यः' । समवायेन, यथा 'विषाणित्वमिव दंष्ट्रित्वं हिंस्त्रम् । अत्र 'समासकृत्तद्धितेषु संबन्धाभिधानम् ' इति वचनात् समवायस्य संभवाद् यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्व-तलाविति स्वप्रत्ययेन समवायस्याभिधानम्। तस्य च सत्यप्येकत्वे उपाधिनिबन्धनं भेदकल्पनम् । ततश्च विषाणो- 25 पाधिकः समवाय उपमानं, दंष्ट्रोपाधिकस्तु उपमेयः। अमावेन, यथा 'मोक्ष इच समाधौ दुःखाभावः' । मोक्षे दुःखाभाव इव समाधौ दुःखाभाव इत्यर्थः ।। धर्मो मनोज्ञत्वादिः, उपमावाचका इव-वा-यथाशब्दाः । यदुक्तम्
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy