________________
काव्यादर्शनामसंकेतसमेतः [९ न० उल्लास: ] इत्यादावेकदेश विवर्तिरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्व मुचितं, न तु श्लेषत्वम् ।
शब्दश्लेष इति चोच्यतेऽर्थालंकारमध्ये च लक्ष्यत इति कोऽयं नयः । किंच वैचित्र्यमलंकार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रतेति सैवालंकारभूमिः । अर्थमुखपेक्षित्वं - मेतेषां शब्दानामिति चेदनुपासादीनामपि तथैवेति तेऽप्यर्थी लंकाराः किं नोच्यन्ते । रसादिव्यनकस्वरूपवाच्यविशेषसम्यपेक्षत्वेऽपि ह्यनुप्रासादीनामशब्दालंकारता। शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता । अर्थगुणदोषालंकाराणां शब्दापेक्षारस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम् ।।
विधौ वक्रे मूर्नीत्यादौ च वर्णादिश्लेष एकप्रयत्नोच्चार्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि प्रसनतीत्येवमादि स्वयं विचार्यम् । . तचित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ।। ८५॥ - संनिवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपद्माद्याकारमुल्लासयन्ति तच्चित्रं काव्यम् । कष्ट काव्यमेतदिति दिङ्मात्र 15 : प्रदर्श्यते । उदाहरणम्
मारारिशक्ररामेभमुखरासाररंहसा । सारारब्धस्तवा नित्यं तदातिहरणक्षमा ।। ३८४ ॥
तथा स्ववचनविरोधोऽपीत्याह-शब्दश्लेष इति ॥ य एवेति, शब्दोऽर्थों वा॥ तत्रैवेति शब्देऽर्थे वा ॥ ' वैचित्र्यम्' इत्यत्र 'स्वयं च पल्लवाताम्रा' इत्यादा- 20 वापि शब्द एवं कविप्रतिभासंरम्भगोचर इति शब्दालंकारतत्र । न चार्थमुखप्रेक्षित्वमेव शब्दानामर्थालंकारनिबन्धनमित्याह-रसादीति । यच्चैकपयत्नोचार्यत्वेऽर्थश्लेषत्वं संमतम् उद्भटस्य तदपि न युक्तमित्याह-'विधौ चक्र' इति ।। विचार्यमिति, न तु झगित्येवामूयितव्यम् । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्ना वक्ष्यमाणोपक्षे यार्थनिष्ठं संसूचकत्वं तत्र शब्दशक्तिमूलो वस्तु 25 ध्वनिः, यथा- रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु ' इत्यादौ ॥
तचित्रमिति । यद्यपि लिप्यक्षराणां खड्गादिसंनिविष्टत्वं, तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारत्वम् ।।
'मारारिः शिवः । रामो मुशली। इभमुखो विनायकः। आसार