________________
[ ९ न० उल्लासः ]
काव्यप्रकाशः ।
माता नतानां संघट्टः श्रियां बाधितसंभ्रमा |
मान्याथ सीमा रामाणां शं मे दिश्यामाद्रिजा ॥ ३८५ ॥
खड्गबन्धः
सरला बहुलारम्भतरलालिबलारवा । वारलाबहुलामन्दकरला वहुलामला || ३८६ ॥
मुरजबन्धः
तुल्येन वेगेन । सार उत्कृष्टः । तेषां मारारिप्रभृतीनां आर्तिः पीडा संघट्टः समूहः श्रियाम् । संभ्रमो मोहः । मान्या पूज्या । रामाणां वरवनितानाम् । सीमा पर्यन्तभूः । ततोऽन्या रूपवती न कापीत्यर्थः आदिजा सर्वेषामादिमा ।।
5
एतेन श्लोकद्वयेन खङ्गः ।
तथा हि दाढिकान्तरे साधारणो मा-शब्दः । तस्य दक्षिणतोऽधः क्रमेण वर्णाश्चतुर्दशं व्यस्येत् । ततः शिखायां साधारणः सा-शब्दः । ऊर्ध्वक्रमेण वामतचतुर्दशैव यावन् मा-शब्दः साधारणः । एतत् फलम् || तस्यैव मा शब्दस्य दक्षिणपार्श्वे निःसरणक्रमेण वामतश्च प्रवेशक्रप्रेण वर्णाः सप्त सप्त । एषा द्रादिका ॥ ततो मा-शब्दाद ऊर्ध्वक्रमेण गण्डिकायां कार्या वर्णत्रयी । उपरि मा-शब्दः साधारणः । 15 तस्य दक्षिणतो वामतश्च तथैव चत्वारो वर्णाः । एतच्च कुलकम् ॥ ततस्तस्य मा शब्दस्य उपरि वर्णद्वयम् । एतद् मस्तकम् ॥ सा मा म शब्दा द्विपञ्चकृत्वो द्विरावृत्ताः ॥ 'सरले 'ति सर्वभाषाभिरमागधिकाभिः शरद्वर्णनोऽयं श्लोकः । 'सरलो दीर्घः । आ समन्तात् प्रभृतेन आरम्भेण चपलानां भ्रमरसैन्यानां आरवः शब्दो यस्याम् । वारलाभिर्हसीभिर्बहला अमन्दा रणं प्रति सोद्योगाः । करण्डे 20 लान्तीति करला राजानो यस्याः । अबहुलेन शुक्लपक्षेण निर्मला । बहुत्वाल्लातीति बहुला शरत् प्रक्रान्ता ॥ एष मुरजबन्धः । तथा हि पादचतुष्टयेन पङ्क्तिचतुष्टये कृते प्रथमादिपादेभ्यः प्रथमपादाद्यक्षराणि चत्वारि, चतुर्थादिपादेभ्यः पञ्चमादीनि चत्वारि गृहीत्वा प्रथमपादः । द्वितीयपादाद् आद्याक्षरं द्वितीयतृतीयपादाभ्यां चतुर्थपञ्चमाक्षरे, चतुर्थपादात् तृतीयद्वितीये, तृतीयात् पादात् प्रथमं चाक्षरं 25 गृहीत्वा द्वितीयपादः । द्वितीयाद् अष्टमं प्रथमात् सप्तमवष्ठे, द्वितीयतृतीयाभ्यां पञ्चमे, चतुर्थात् षतमे, तृतीयाद् अष्टमं गृहीत्वा तृतीयपादः । चतुर्थात् प्रथमं, तृतीयाद् द्वितीयं द्वितीयाद् तृतीयं प्रथमात् चतुर्थपञ्चमे पुनर्द्वितीयात् षष्ठं, तृतीयात् सप्तमं चतुर्थाद् अष्टमं च गृहीत्वा चतुर्थः पादः ॥
1
10