________________
[२० उल्लासः ] काव्यप्रकाशः ।
४५ द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात् । न च विरोधाभास इव विरोधः श्लेषामासः श्लेषः । तस्मादेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलंकारान्तरमेव । तथा च
सद्वंशमुक्तामणिः ।।३८०॥ नाल्पः कविरिव स्वल्पश्लोको देव महान्भवान् ॥३८१॥ अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥३८२॥ आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
यश्चित्रमच्युतशरो लक्ष्यममाक्षीन्नमस्तस्मै । ३८३॥ एवं हि श्लेषाभासत्वं श्लेषस्य लक्षणं स्यात् । न चैतत् संमतमिति पतिपादय- 10 नाह-न चेति । यथा विरोधाभासो विरोधः, न तथा श्लेषाभासः श्लेषः । उभयार्थप्ररोहे हि श्लेष इत्यर्थः ।।
'सर्वशे'ति । वंशः कुलं, स एव सद्वंशो वेणुः । यथा 'विद्वन्मानसे' त्यत्र राज्ञो हंसरूपणान्यथानुपपत्त्या विद्वन्मानसस्य मानससरस्त्वं रूप्यते साक्षादनुक्तमपि, एकदेशविवति चेदं रूपकं मानसस्य मानससरस्त्वरूपणाया: 15 साक्षादनुक्तत्वाद्, एवमत्रापि वर्ण्यमानस्य मुक्तामणित्वरूपणान्यथानुपपत्त्या वंशस्य कुलस्य वेणुत्वरूपणमनु कमपि गम्यते, एकदेशविवर्तित्वं च पूर्ववद् उद्भावनीयमेकस्मिन् देशे विशेषेण वर्तनात् । एकदेशविवर्तिरूपकस्य चास्य परंपरितरूपकत्वं काव्यप्रकाशकारमते ॥ .
' श्लोकः कीर्तिश्च'। अत्रोपमेयस्य पाकरणिकत्वेनोपमानाद् आधिक्य- 20 मिति व्यतिरेकेऽष्टमो भेदः । श्लोकशब्दः श्लिष्टः ॥
'अनुरागो लौहित्यं अभिष्वङ्गश्च । आगच्छन्त्या इव संध्यायाः कामुकवद् दिवस: पुरः संमुखं सरतीति व्याख्येयम् , न तु पदातिन्यायेन अग्रे दिवसो गच्छति संध्या पश्चादिति । एवं हि वर्षशतैरपि समागमो न भवतीति.कि चित्रम् ।' अत्र संध्यादिवसयोरुपमेययोः 'अनुरागवती' इत्यादिलिष्टविशेषण: 25 महिम्ना नायकयोरुपमानयोर्व्यवहारप्रतीतिरिति समासोक्तिरलंकारः॥ .
'अचलं पर्वतं निश्चलं च । अहीनां सर्पाणां इन स्वामिनं, हीनं च । विषमा त्रिरूपाऽस्थिरा च । अच्युतः कृष्णो गतिशून्यश्च ।' एषु चतुर्यु चत्वारोऽलंकाराः, न तु श्लेषस्य सर्वालंकारेषु प्रतिभानमात्रम् ॥