________________
९० उल्हासः]
काव्यप्रकाशः । अयं सर्वाणि शास्त्राणि हृदि नेषु च वक्ष्यति । सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥३७३॥ रजनिरमणमौलेः पादपद्मावलोक
क्षणसमयपराप्तापूर्वसंपत्सहस्रम् । ममैथनिवहमध्ये जातुचित्वत्मसादा
दहमुचितरुचिः स्यान्नन्दिता सा तथा मे ॥३७४॥ सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसांमुख्यमायासि तनुवर्तनम् ॥३७५॥ भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत् । नवमोऽपीत्यपिभिन्नक्रमः । उदाहरणम्
योऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः। शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ॥३७६॥
अत्र प्रकरणादिनियमाभावाद् द्वस्वप्यौँ वाच्यौ । जन्म-लक्षाभ्यस्ताया अविद्याया भञ्जने यदुग्रं बलं तेन अकलङ्के ।
'वक्ष्यतीति धारयिष्यति कथयिष्यति च । अत्र वहिवच्योः कृन्तति- 15 करोत्योश्च प्रकृत्योर्भङ्गः । स्यति-किप्पत्ययो च तावेव उभयत्रापि ॥
प्रत्ययश्लेषः, यथा- 'रजनी' ति । 'सहस्रम्' इति क्रियाविशेषणम् । 'स्यां स्याद'इति च । नन्दतीति नन्दिता' नन्दिनो गणविशेषस्य च भाव इति तृ-त-प्रत्ययोः श्लेषः ।।।
_ 'सर्वत्त्व 'मिति । ' हे हर सर्वस्य वं सर्वस्वम् । भवः संसारः, तच्छेद- 20 निष्ठः । नयोपकारयोः सांमुख्यं शरीरवर्तनम् । आयासि [ आ गच्छसि ॥ अपरोऽर्थः । 'हर अपहर, भव संपद्यस्व, नय निवारय । आयासि खेदकारि। वर्तनं वृत्ति विस्तारय' । अत्र ‘स्याद् ' इत्यायोर्विभक्त्योः ॥ वचनश्लेषे तूदाहसम् ॥८२॥
. एषां प्रकृत्यादीनामविशेषेऽपि श्लेषः स्यादित्याह-भेदाभावादिति । प्रकर- 25 पादिना चाभिधाया अनियन्त्रितत्वात् श्लेष एव. न तु ध्वनिः ॥ नवमोऽपीति | अमाः शब्दश्लेष इत्यर्थः । अभङ्गत्वेन च पूर्वस्मादस्य भेदः ।। ‘गोत्र 'शब्दः कुलपर्वतयोः । 'पक्षा' वर्याः पतत्राणि च । 'क्षण' उत्सवः । शतं कोटि च ददाति, शतकोटिना वज्रेण धति खण्डयति च । 'विबुधाः' पण्डिता देवाश्चत्य