________________
२४२:
[ ९ न० उल्लासः ]
काव्यादर्शनामस्संकेतसमेत:
ननु स्वस्तिादिगुणभेदाद्भिन्नप्रयत्नोच्चार्याणां तदभेदादभिन्न प्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलंकारान्तरप्रतिभोत्पत्तिहेतु: शब्द श्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्ययमर्थालंकारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दालंकारः । उच्यते - इह दोषगुणालंकाराणां शब्दार्थगतत्वेन यो विभागः सोऽन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथा हि-कष्टत्वादिगतत्वाद्यनुमासादयो व्यर्थत्वादिमोदयाद्युपमादयस्तद्भावतदभावानुविधायित्वा देव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते ।
5
भङ्गः शब्दश्लेषः ॥
ननु स्वरितेति । स्वरितोदात्तादिस्वरभेदात्प्रयत्नभेदे शब्द श्लेषो यत्र प्रायेण 10 पदमङ्गो भवति । यत्र तु स्वरितादिगुणभेदो नास्तीत्यभिन्न प्रयत्नोच्चार्यत्वे सति प्रयत्नादिसाम्याद् अभङ्गपदत्वेऽथश्लेषः । एष च प्राप्तेष्वलंकारान्तरेष्वारभ्यमाणबाधकत्वात् तत्यतिभोत्पत्तिहेतुरिति द्विप्रकारोऽप्ययं श्लेषोऽर्थालंकार इति केचित् । यथा -
रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्य पुष्पेषु रुचि समग्रां पद्मानि रेजुः श्रमणा यथैते ॥
09
15
1
- अत्र 'रक्तच्छदत्वम् इत्यादौ अर्थद्वयाश्रितत्वाद् अर्थश्लेषः । 'नालम् - इत्यादौ च शब्दद्वयाश्रितत्वाच्छन्द श्लेषः प्रयत्नादिभेदाच्च प्रातीतिक एव शब्दभेदः, ततव 'रक्तच्छदे 'त्यत्र एकट्टन्तगतफलद्वयन्यायेन अर्थद्वयस्य शब्दे श्लिष्टत्वम् । 'नालम्' इत्यत्र तु जतुकाष्ठन्यायेन स्वयमेव शब्दयोः श्लिष्टत्वमि- 20 त्युभयरूपोऽप्ययमर्थालंकारः, तद् निषेधयन्नाह - इहेति । शब्दगतत्वेनार्थगतत्वेन च यो विभागो व्यवस्था दोषादीनां सोऽन्वयव्यतिरेकाभ्यामेव । सति तस्मिन् भवतीत्यन्वयः, असति तु न भवतीति व्यतिरेकः । एतदेव तथा हि-इत्यनेन व्याचष्टे । कष्टत्वादयः शब्ददोषा, गाढत्वादयः शब्दगुणाः, अनुप्रासादयः शब्दालंकारा, व्यर्थत्वादयोऽर्थदोषाः, प्रौढयादयोऽर्थगुणा, उपमादयो- 25 ऽर्थालंकाराः शब्दार्थगतत्वेन व्यवस्थाप्यन्ते, ततोऽयमर्थालंकार इति न वाच्यं, अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमानत्वात् । तथा हि 'परगोत्राणाम् ' इत्यत्र गोत्रादिशब्दप्रयोगे ऽलंकारः, गिर्यादिप्रयोगे तु नेति शब्दालंकार एवायम् । यश्चाभङ्गत्वमात्रेण अर्थश्लेषत्वमभिमतम् उद्भटस्य तदपि नैवोपपन्नमित्याह -