________________
१४०
काव्यादर्शना पसंकेतसमेतः [ ९ ० उखः ]
एवं वचनश्लेषोऽपि ।
महदे सुरसंध मे तमत्र समासमागमाहरणे ।
हर बहुसरणं तं चित्तमोहमवसर उमे सहसा || ३७२ ॥
ईति प्राप्तये इति च स्त्री नपुंसकलिङ्गयोः श्लेषः ॥
'महानिधि:' इति चैकवचन द्विवचन श्लेषोऽपि ॥ भाषाथसंस्कृतप्राकृतमागघपिशाचभाषाश्च शौरसेनी च । षष्ठोऽत्र भूरिमेदो देशविशेषादपभ्रंशः ॥ इति षट् ।
तासां भिन्नार्थत्वे युगपदुक्तिः श्लेषः । तत्र संस्कृतप्राकृतयो:, यथा'महे 'ति । कश्चिद् ध्यानानीतां गौरीं प्रत्याह । ' महदे उत्सवमदे सुरे सन्धा प्रतिज्ञा यत्र, देवविषयमित्यर्थः । मम तमुत्कृष्टम् । अवरक्ष | समास अभिप्रेतं 10 आगमाहरणे आगमस्वीकारे । तथा हर निवारय । बहु मभूतं सरणं प्रसरणं यत्र तं चित्तस्य मोहमज्ञानं, अवसरे काले उमे गौरि सहसा झगित्येव ' ।। प्राकृतेsन्योर्थः । ' मम देहि रसं धर्मे तमोवशां तमः परिभूतामाशां गमागमात् संसाराद् हर । ण इति नः । तथा हे हरवधु शम्भुपत्नि शरणं त्वम् । चित्तमोहोऽपसरतु
सहसा ' | 'चित्तमोह 'मिति ' गुणाद्याः क्लीबे' इति प्राकृते नपुंसकत्वम् || 15 एवं संस्कृतमागध्योः संस्कृतपैशाच्योः संस्कृतशौरसेन्योः संस्कृतापभ्रंशयोः श्लेषो ज्ञेयः । तथा अर्थैक्ये द्विचतुःपञ्चषण्णां भाषाणां युगपदुक्तौ व्यादिभाषाश्लेषोsपि । तत्र द्वियोगे पञ्चदश, त्रियोगे विंशतिः, चतुर्योगे विंशतिः, योगे पटू, पड्योगे एकः । सर्वमीलने भाषाश्लेषस्य सप्तपञ्चाशद् सेवा भवन्ति । एते च पूर्वोक्ते भाषाश्लेषभेदेऽभिन्नार्थत्वेऽपि द्रष्टव्याः ॥ संस्कृतप्राकृतयोर्योगः, यथा -
20
सरले सहास - रागं परिहर रम्भोरु मुञ्च संरम्भम् । विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥
5
एवं संस्कृतमागध्योः संस्कृतपैशाच्योः संस्कृतशौरसेन्योः संस्कृतापभ्रंशयो ज्ञेयम् ॥ एवं द्वियोगान्तरे त्रिचतुःपञ्च योगेषु चोदाहार्यम् ॥ 25 षड्योगे, यथा
अलोलकमले चित्तं ललाम कमलालये । पाहि चण्डि महामोहभङ्गभीमवलामले ॥
6
'हे चण्डि देवि रक्ष | अचपललक्ष्मि मनः प्रधानपद्मालये । महामोहस्य