________________
२३८
काव्यादर्शनामसंकेतसमेतः [९ न० उल्लासा ] ससार साकं दर्पण कंदर्पण समारसा।
शरं नवाना बिभ्राणा नाबिभ्राणा शरन्नवा ॥३६७|| मधुपराजि-पराजित-मानिनीजनमनःसुमनःसुरभि श्रियम् अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत ॥३६८॥
समस्तान्तादिकसमस्तान्तकयोोंगेऽर्धपरिवृत्तिः, यथा-'ससारे 'ति । 5 'ससार प्रवद्वते साध दर्पण कामेन च ससारसा लक्ष्मणाख्यपक्षियुक्ता । शरं काण्डम् । नवानि अनांसि शकटानि यस्याम् । विभ्राणा धारयन्ती। वोनां भ्राणः शब्दो विद्यते यस्याम् । तथाभूता न, अपि तु पक्षिशब्दयुक्ता शरद् ऋतुः । नवा नूतना' ॥ एवं मध्यादिकादिमध्यान्तमध्यमध्यान्तकतत्समुच्चया उदाहार्याः ॥
. .
10 त्रिखण्डे तत्रैव पादे आदिमध्यं, यथा
स रणे सरणेन नृपो बलितावलितारिजनः ।.
पदमापदमात् समतेरुचितं रुचितं च निजम् ॥ स संग्रामे प्रयाणेन हेतुना बलवत्त्वेन वेष्टितारिजनः । पदं राज्यलक्षणम् । उपशमाद् हेतोः । अनुरूपं अभीष्टं च ॥ आधन्तं, यथा--
घनाघ नायं न नभा घनाधनानुदारयन्नेति मनोऽनु दारयन् ।
सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न होयसे ॥ एतत् पथिकस्य प्रापि सुहृदाह । बहुपाप, श्रावणो मासो वार्षकमेघान् विस्तारयन् न नायमेति । मनोऽर्थाद् विरहिणां पश्चात् स्फोटयन् निर्दयं तां 20 कान्तां निर्लील उद्वेजयन् सर्पवद् आचरसि। यद्वा, कियत् तव एतद् बलीवाद् न्यूनो न भवसि ॥
मध्यान्तं, यथा
___ असतामहितो महितो युधि सारतया रतया । ___स तयोरुरुचे रुरुचे परमेभवते भवते ॥ .
25 'अननुकूलोऽत एव पूजित उत्कृष्टतया बलवत्तया तदेकसत्कया । कश्चिद वीरः प्रसिद्धया विस्तीर्णकान्तये प्रीतिमुत्पादितवान् । प्रकृष्टगजयुक्ताय तुल्यम् ॥
- अनियते स्थाने, यथा-'मधुपे 'ति । 'भ्रमरपङ्क्त्या पराभूतं मानिनी. जनस्य मनः यकाभिः तथाभूताः सुमनसः पुष्पाणि तासां सौगन्ध्यलक्ष्मी जगत्