________________
[ ९ मे० उल्लासः ]
काव्यप्रकाशः ।
सत्वारं भरतोऽवैश्यमबलं विततारवम् । सर्वदा रणमानैषीदवानलसम स्थितः || ३६२ ॥ सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानलसमस्थितः || ३६३|| अनन्तम हिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् || ३६४ | दातोsयदानतो नयात्ययं न यात्ययम् ।
शिवे हितां शिवैहितां स्मरामितां स्मरामि ताम् || ३६५ || सरस्वति प्रसादं मे स्थिति चित्तसरस्वति । सरस्वतिकुरु क्षेत्र - कुरुक्षेत्र - सरस्वति || ३६६ ||
ર
4
तत्रैव पादेऽन्तमागेन सह - चतुष्पदावृत्तौ पादसमुद्गकाख्यं, यथा'यदानत ' इति । ' यस्या आनतः प्रणतः । अयस्य शुभावहस्य देवस्य दानतो नयस्य षाड्गुण्यस्यात्ययं न गच्छत्ययम् । शिवम् ई हितं यस्याः । शिवे हरेऽनुकूलां स्मरेण कामेनामितां अपरिच्छिन्नां ध्यायामि ताम् ॥
5
श्लोकावृत्तिः, यथा – 'सत्वे 'ति । स तु पूर्वप्रक्रान्तो राजा शत्रुसमूहं भरात् वशेऽवर्तमानं बलरहितं दीर्घाक्रन्दं सर्वकालं संग्रामं प्रापयामास । अवान् अलसं, अपितु त्वरितं गच्छन् अस्थीनि तस्यति उपक्षिणो अस्थितः । ' अन्त्वसन्तेत्यातो:' इति वर्जनाद् दीर्घाभावः ॥ सत्त्वेन, न तु कुसृत्या, ये आरम्भास्तेषु रतः । अवश्यं निश्चितम् । अवलम्बितं आश्रितं तारवं तरुत्वग्वसनं येन 15 शत्रुसमूहेन । सर्वेषां दारणो यो मानस्तमिच्छति, अत एव दवाग्निना समं स्थितं यस्य " || शब्दश्लेषाच्चास्य महायमकस्य भेदः || शब्दश्लेषे हि एकेनैव प्रयत्नेन वाक्यद्वयमुच्चार्यते, इह तु द्वाभ्यां वर्णनीयवस्तुद्वयं च नास्तीति ॥ द्विखण्डे पादेऽन्तभागावृत्तेः सप्तसु भेदेषु मध्याद् द्वितीयो भेदः, यथा - “अनन्ते 'ति । ‘ वेधाः प्रजापतिः । न वेत्ति यां प्रणते पुरुषे दयां कृपाम् ' 11 20 अन्त्यार्घसंदष्टकम् । एवमन्येऽपि भेदा उदाहार्याः |
तृतीयं समस्ताख्यमाद्यन्तकं, यथा- 'सरस्वती 'ति । 'वागीश्वरि चितसमुद्रे स्थिते मयि सर गच्छ प्रसादं मे कुरु । सुष्ठु अतिशयेन च । शरीरमेव कुरु क्षेत्रम् | ' तत्र सरस्वत्याख्ये नदि ॥ अत्रैव 'कुरुक्षेत्रे 'ति तृतीयपादस्यान्त्या पादाद्यर्धेन यम्यते इति द्वितीयं व्यस्ताख्यमन्तादिकम् ॥
10
25